The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

औपनिषदिकं

Back to Kamasutra Menu Page

सुभगंकरणं वशीकरणं वृष्याश् च योगाः

७.१.१> व्याख्यातं च कामसूत्रं/

७.१.२> तत्रौक्तैस् तु विधिभिर् अभिप्रेतम् अर्थम् अनधिगच्छन् *औपनिषदिकम्[अन्यत्र : पनिषदिकम्] आचरेत्/

७.१.३> रूपं गुणो वयस्त्याग इति सुभगंकरणम्/

७.१.४> तगरकुष्ठतालीसपत्रकअनुलेपनं सुभगंकरणम्/

७.१.५> एतैर् एव सुपिष्टैर् वर्तिम् आलिप्यअक्षतैलेन नरकपाले साधितम् अञ्जनं च/

७.१.६> पुनर्नवासहदेवीसारिवाकुरण्टौत्पलपत्रैश् च सिद्धं तैलम् अभ्यञ्जनम्/

७.१.७> तद् युक्ता एव स्रजश् च/

७.१.८> पद्मौत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्याम् अवलिह्य सुभगो भवति/

७.१.९> तान्य् एव तगरतालीसतमालपत्रयुक्तान्य् *अनुलेपनम्[अन्यत्र : नुलिप्य]/

७.१.१०> मयूरस्यअक्षितरक्षोर् वा सुवर्णेन*आलिप्य[अन्यत्र : वलिप्य] दक्षिणहस्तेन धारयेद् इति सुभगंकरणम्/

७.१.११> तथा *बादरं मणिं[अन्यत्र : बादरमणिं] शङ्खमणिं च तेषां [अन्यत्र प्रविशयतु , तथाएव तेषु]चआथर्वणान् योगान् गमयेत्/

७.१.१२> विद्यातन्त्राच् च विद्यायोगात् प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रम् अन्यतो *धारयेत्[अन्यत्र : वारयेत्]/ ततो *धारितां[अन्यत्र : वारितां] बालां *मत्वा[अन्यत्र : वामत्वाल्] लालसीभूतेषु गम्येषु यो +अ*अस्याः[अन्यत्र : स्यै] *संह(घ)र्षेण[अन्यत्र : संघर्षेण] बहु दद्यात् तस्मै विसृजेद् इति सौभाग्यवर्धनम्/

७.१.१३> गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपअनुरूप्येण तान् अभिनिमन्त्र्य सारेण यो *+अस्यै[अन्यत्र : +अस्य] इदम् इदं च दद्यात् स पाणिं गृह्णीयाद् इति *संसाध्य[अन्यत्र : संभाष्य] रक्षयेद् इति/

७.१.१४> सा च मातुरविदिता नाम नागरिकपुत्रैर् धनिभिर् अत्यर्थं प्रीयेत/

७.१.१५> तेषां कलाग्रहणे गन्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः/

७.१.१६> तेषां यथाउक्तदायिनां माता पाणिं ग्राहयेत्/

७.१.१७> *तत्[अन्यत्र : ोम्.] तावद् अर्थम् अलभमाना तु स्वेनअप्य् एकदेशेन *दुहित्रे[अन्यत्र : दुहित्र] एतद् दत्तम् अनेनैति ख्यापयेत्/ [अन्यत्र : िन्स्.७.१.१८> ऊढाया वा कन्याभावं विमोचयेत्//]

७.१.१९> प्रच्छन्नं वा तैः संयोज्य स्वयम् अजानती भूत्वा ततो विदितेष्व् *एवं[अन्यत्र : ेतं] धर्मस्थेषु निवेदयेत्/

७.१.२०> सख्याएव तु दास्या वा मोचितकन्या*भावाम् उपगृहीत[अन्यत्र : भावां सुगृहात]कामसूत्राम् आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठितेवयसि सौभाग्ये च दुहितरम् अवसृजन्ति गणिका इति *प्राप्य[अन्यत्र : प्राच्य]उपचाराः/

७.१.२१> पाणिग्रहश् च संवत्सरम् अव्यभिचार्यस् ततो यथा कामिनी स्यात्/

७.१.२२> ऊर्ध्वम् अपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभम् अप्य् उत्सृज्य तां रात्रिं तस्यआगच्छेद् इति वेश्यायाः *पाणि[अन्यत्र : पाण]ग्रहणविधिः सौभाग्यवर्धनं च/

७.१.२३> एतेन रङ्गौपजीविनां कन्या व्याख्याताः/

७.१.२४> तस्मै तु तां दद्युर् य एषां *तूर्यविशिष्टम्[अन्यत्र : तूर्ये विशिष्टम्] उपकुर्यात्/ इति सुभगंकरणम्/ (एकोनषष्टितमं प्रकरणम्//)

७.१.२५> धत्तूरकमरिचपिप्पलीचूर्णैर् मधुमिश्रैर् लिप्तलिङ्गस्य *प्रयोगो[अन्यत्र : संप्रयोगो] वशीकरणम्/

७.१.२६> वातोद्भान्तपत्रं मृतकनिर्माल्यं मयूरअस्थिचूर्णअवचूर्णं वशीकरणम्/

७.१.२७> स्वयंमृताया मण्डलकारिकायाश् चूर्णं मधुसंयुक्तं सहआमलकैः स्नानं वशीकरणम्/

७.१.२८> वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषाणचूर्णेनअभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम्/

७.१.२९> एतेनएव रात्रौ धूमं कृत्वा तद्धूमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति/

७.१.३०> एतैर् एव चूर्णितैर् वानरपुरीषमिश्रितैर् यां कन्याम् अवकिरेत् सअन्यस्मै न दीयते/

७.१.३१> वचागण्डकानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धम् उत्कीर्य [अन्यत्र प्रविशयतु , षण्मासं] निदध्यात्/ [अन्यत्र प्रविशयतु , ततः] षड्भिर् मासैर् अपनीतानि देवकान्तम् अनुलेपनं वशीकरणं चैत्य् आचक्षते/

७.१.३२> तथा खदिरसारजानि शकलानि तनूनि यं वृक्षम् उत्कीर्य [अन्यत्र प्रविशयतु , षण्मासं] निदध्यात् तत्पुष्पगन्धानि भवन्ति/ गन्धर्वकान्तम् अनुलेपनं वशीकरणं चैत्य् आचक्षते

७.१.३३> प्रियंगवस् तगरमिश्राः सहकारतैलदिग्धा *नागकेसर[अन्यत्र : नाग]वृक्षम् उत्कीर्य *षण्मास[अन्यत्र : षण्मासं]निहिता नागकान्तम् अनुलेपनं वशीकरणम् इत्य् आचक्षते/

७.१.३४> *उष्ट्रस्य[अन्यत्र : ुष्ट्र]अस्थि भृङ्गराजरसेन भावितं दग्धम् *अञ्जनम् उष्ट्रअस्थ्य् *अञ्जनिकायां[अन्यत्र : ञ्जनं नलिकायां] निहितम् उष्ट्रअस्थिशलाकयाएव स्रोतो +अञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चैत्य् आचक्षते/

७.१.३५> एतेन श्येनभासमयूरअस्थिमयान्य् अञ्जनानि व्याखातानि/ (इति वशीकरणम्/ षष्टितमं प्रकरणम्//)

७.१.३६> उच्चटाकन्दश् *च[अन्यत्र : चव्या] यष्टीमधुकं च सशर्करेण पयसा पीत्वा *वृषो[अन्यत्र : वृषी] भवति/

७.१.३७> मेष*बस्त[अन्यत्र : वस्त]मुष्कसिद्धस्य पयसः सशर्करस्य पानं वृषत्वयोगः/

७.१.३८> तथा विदार्याः क्षीरिकायाः *स्वयंगुप्तायाश्[अन्यत्र : स्वयगुप्तायाश्] च क्षीरेण पानम्/

७.१.३९> तथा *पियाल[अन्यत्र : प्रियाल]बीजानां मोरटा*क्षीर[छ् ओमित्स्]विदार्योश् च क्षीरेणएव/

७.१.४०> शृङ्गाटककसेरु*मधूकानि[अन्यत्र : कामधूलिकानि] क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दअग्निनाउत्करिकां पक्त्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छतिइत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४१> माषकमलिनीं पयसा धौताम् उष्णेन घृतेन मृदूकृत्यौद्धृतां वृद्धवत्सायाः गोः पयः सिद्धं पायसं मधुसर्पिर्भ्याम् अशित्वा+अनन्ताः स्त्रियो गच्छतिइत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/ ७.१.४२> विदारी स्वयंगुप्ता शर्करामधुसर्पिर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छतिइत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४३> चटकअण्डरसभावितैस् तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावद् अर्थम् इति समानं पूर्वेण/

७.१.४४> चटकअण्डरसभावितान् अपगतत्वचस् तिलान् शृङ्गाटककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं *पायसं[अन्यत्र : संयावं] यावद् अर्थं *प्राशितम्[अन्यत्र : प्राशितवान्] इति समानं पूर्वेण/

७.१.४५> सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गम् अमृतं मेध्यं वृष्यम् आयुष्यं युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४६> शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्प[अन्यत्र : पुष्य]आरम्भेणअन्वहं प्राशनं मेध्यं वृष्यम् आयुष्यं युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४७> शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर्*गुणे जले[अन्यत्र : गुणितजलेन] पाक आ प्रकृत्यवस्थानात्/ तस्य *पुष्प[अन्यत्र : पुष्य]आरम्भेण प्रातः प्राशनं मेध्यं वृष्यम् आयुष्यं युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४८> श्वदंष्ट्राचूर्णसमन्वितं तत्समम् एव यवचूर्णं प्रातर् उत्थाय द्वि*पलिकम्[अन्यत्र : पलकम्] अनुदिनं प्राश्नीयान् मेध्यं वृष्यम् *आयुष्यं[छ् ओमित्स्] युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/ (इति वृष्यायोगाः/ एकषष्टितमं प्रकरणम्//)

७.१.४९क > आयुर्वेदाच् च वेदाच् च विद्यातन्त्रेभ्य एव च/

७.१.४९ख > आप्तेभ्यश् चअवबोद्धव्या योगा ये प्रीतिकारकाः//

७.१.५०अ> न प्रयुञ्जीत संदिग्धान् न शरीरअत्ययअवहान्/

७.१.५०ख > न जीवघातसंबद्धान् नअशुचिद्रव्यसंयुतान्//

७.१.५१क > *तथा युक्तान्[अन्यत्र : तपोयुक्तः] प्रयुञ्जीत शिष्टैर् *अपि न निन्दितान्[अन्यत्र : नुगतान् विधीन्]/

७.१.५१ख > ब्राह्मणैश् च सुहृद्भिश् च मङ्गलैर् अभिनन्दितान्//