The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

वैशिकं

Back to Kamasutra Menu Page

अर्थानर्थनुबन्धसंशयविचारा वेश्याविशेषाश् च

६.६.१> अर्थान् आचर्यमाणान् अनर्था अप्य् अनूद्भवन्त्य् अनुबन्धाः संशयाश् च//

६.६.२> ते बुद्धिदौर्बल्याद् अतिरागाद् अत्यभिमानाद् अतिदम्भाद् अत्यार्जवाद् अतिविश्वासाद् अतिक्रोधात् प्रमादात् साहसाद् दैवयोगाच् च स्युः//

६.६.३> तेषां फलं कृतस्य व्ययस्य निष्फलत्वम् अनायतिरागम् इष्यतो +अर्थस्य निवर्तनम् आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर् गम्यता शरीरस्य प्रघातः केशानां छेदनं पातनम् अङ्गवैकल्यापत्तिः/

६.६.४> तस्मात् तान् आदित एव परिजिहीर्षेद् अर्थभूयिष्ठांश् चौपेक्षेत//

६.६.५> अर्थो धर्मः काम इत्य् अर्थत्रिवर्गः/

६.६.६> अनर्थो +अधर्मो द्वेष इत्य् अनर्थत्रिवर्गः/

६.६.७> तेष्व् आचर्यमाणेष्व् अन्यस्यअपि निष्पत्तिर् अनुबन्धः/

६.६.८> संदिग्धायां तु फलप्राप्तौ स्याद् वा न वाइति शुद्धसंशयः/

६.६.९> इदं वा स्याद् इदं वाइति सम्कीर्णः/

६.६.१०> एकस्मिन् क्रियमाणे कार्ये कार्यद्वयस्यौत्पत्तिर् उभयतो योगः/

६.६.११> समन्ताद् उत्पत्तिः समन्ततोयोग इति तान् उदाहरिष्यामः//

६.६.१२> विचारितरूपो +अर्थत्रिवर्गः/ तद्विपरीत एवअनर्थत्रिवर्गः//

६.६.१३> यस्यौत्तमस्यअभिगमने प्रत्यक्षतो +अर्थलाभो ग्रहणीयत्वम् आयतिर् आगमः प्रार्थनीयत्वं चअन्येषां स्यात् सो +अर्थो +अर्थअनुबन्धः//

६.६.१४> लाभमात्रे कस्य चिद् अन्यस्य गमनं सो +अर्थो निरनुबन्धः//

६.६.१५> अन्यअर्थपरिग्रहे सक्ताद् आयतिच्छेदनम् अर्थस्य निष्क्रमणं लोकविद्विष्टस्य वा नीचस्य गमनम् आयतिघ्नम् अर्थो +अनर्थअनुबन्धः//

६.६.१६> (स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्फलम् अपि व्यसनप्रतीकारअर्थं महतश् चअर्थघ्नस्य निमित्तस्य प्रशमनम् आयतिजननं वा सो +अनर्थो +अर्थअनुबन्धः//)

६.६.१७> कदर्यस्य सुभगमानिनः कृतघ्नस्य वाअतिसंधानशीलस्य स्वैर् अपि व्ययैस् तथाआराधनम् अन्ते निष्फलं सो +अनर्थो निरनुबन्धः//

६.६.१८> तस्यएव राजवल्लभस्य क्रौर्यप्रभावअधिकस्य तथाएवआराधनम् अन्ते निष्फलं निष्कासनं च दोषकरं सो +अनर्थो +अनर्थअनुबन्धः//

६.६.१९> एवं धर्मकामयोर् अप्य् अनुबन्धान् योजयेत्//

६.६.२०> परस्परेण च युक्त्या संकिरेद् इत्य् अनुबन्धाः//

६.६.२१> परितोषितो +अपि दास्यति न वाइत्य् अर्थसंशयः/

६.६.२२> निष्पीडितअर्थम् अफलम् उत्सृजन्त्या अर्थम् अलभमानाया धर्मः स्यान् न वाइति धर्मसंशयः/

६.६.२३> अभिप्रेतम् उपलभ्य परिचारकम् अन्यं वा क्षुद्रं गत्वा कामः स्यान् न वाइति कामसंशयः/

६.६.२४> प्रभाववान् क्षुद्रो +अनभिमतो +अनर्थं करिष्यति न वाइत्य् अनर्थसंशयः/

६.६.२५> अत्यन्तनिष्फलः सक्तः परित्यक्तः पितृलोकं यायात् तत्रअधर्मः स्यान् न वाइत्य् अधर्मसंशयः/

६.६.२६> रागस्यअपि विवक्षायाम् अभिप्रेतम् अनुपलभ्य विरागः/ स्यान् न वाइति द्वेषसंशयः/ इति शुद्धसंशयाः//

६.६.२७> अथ संकीर्णाः//

६.६.२८> आगन्तोर् अविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर् वा समुपस्थितस्यआराधनम् अर्थो +अनर्थ इति संशयः/

६.६.२९> श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूर्षोर् मित्रवाक्याद् आनृशंस्याच् च गमनं धर्मो +अधर्म इति संशयः/

६.६.३०> लोकाद् एवआकृतप्रत्ययाद् अगुणो गुणवान् वाइत्य् अनवेक्ष्य गमनं कामो द्वेष इति संशयः/

६.६.३१> संकिरेच् च परस्परेणैति संकीर्णसंशयाः//

६.६.३२> यत्र परस्यअभिगमने +अर्थः सक्ताच् च संघर्षतः स उभययो +अर्थः/

६.६.३३> यत्र स्वेन व्ययेन निष्फलम् अभिगमनं सक्ताच् चअमर्षिताद् वित्तप्रत्यादानं स उभयतो +अनर्थः/

६.६.३४> यत्रअभिगमने +अर्थो भविष्यति न वाइत्य् आशङ्का सक्तो +अपि संघर्षाद् दास्यति न वाइति स उभयतो +अर्थसंशयः/

६.६.३५> यत्रअभिगमने व्ययवति पूर्वो विरुद्धः क्रोधाद् अपकारं करिष्यति न वाइति सक्तो वामर्षितो दत्तं प्रत्यादास्यति न वाइति स उभयतो +अनर्थसंशयः/ इत्य् औद्दालकेर् उभयतोयोगाः//

६.६.३६> बाभ्रवीयास् तु ---

६.६.३७> यत्रअभिगमने +अर्थो +अनभिगमने च सक्ताद् अर्थः स उभयतो +अर्थः/

६.६.३८> यत्रअभिगमने निष्फलो व्ययो +अनभिगमने च निष्प्रतीकारो +अनर्थः स उभयतो +अनर्थः/

६.६.३९> यत्रअभिगमने निर्व्ययो दास्यति न वाइति संशयो +अनभिगमने सक्तो दास्यति न वाइति स उभयतो +अर्थसंशयः/

६.६.४०> यत्रअभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वाइति संशयो +अनभिगमने च क्रोधाद् अनर्थं करिष्यति न वाइति स उभयतो +अनर्थसंशयः//

६.६.४१> एतेषाम् एव व्यतिकरे +अन्यतो +अर्थो +अन्यतो +अनर्थः, अन्यतो +अर्थो +अन्यतो +अर्थसंशयः, अन्यतो +अर्थो +अन्यतो +अनर्थसंशय इति षट्संकीर्णयोगाः//

६.६.४२> तेषु सहायैः सह विमृश्य यतो +अर्थभूयिष्ठो +अर्थसंशयो गुरुर् अनर्थप्रशमो वा ततः प्रवर्तेत//

६.६.४३> एवं धर्मकामव् अप्य् अनयाएव युक्त्याउदाहरेत्/ संकिरेच् च परस्परेण व्यतिषञ्जयेच् चैत्य् उभयतोयोगाः//

६.६.४४> संभूय च विटाः परिगृह्णन्त्य् एकाम् असौ गोष्ठीपरिग्रहः/

६.६.४५> सा तेषाम् इतस् ततः संसृज्यमाना प्रत्येकं संघर्षाद् अर्थं निर्वर्तयेत्/

६.६.४६> सुवसन्तकआदिषु च योगे यो मे इमम् अमुं च संपादयिष्यति तस्यआद्य गमिष्यति मे दुहिताइति मात्रा वाचयेत्/

६.६.४७> तेषां च संघर्षजे +अभिगमने कार्याणि लक्षयेत्/

६.६.४८> एकतो +अर्थः सर्वतो +अर्थः एकतो +अनर्थः सर्वतो +अनर्थः अर्धतो +अर्थः सर्वतो +अर्थः अर्धतो +अनर्थः सर्वतो +अनर्थः/ इति समन्ततो योगाः//

६.६.४९> अर्थसंशयम् अनर्थसंशयं च पूर्ववद् योजयेत्/ संकिरेच् च तथा धर्मकामाव् अपि/ इत्य् *अनुबन्धअर्थअनर्थ[अन्यत्र : र्थअनर्थअनुबन्ध]संशयविचाराः//

६.६.५०> कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपआजीवा गणिका चैति वेश्याविशेषाः//

६.६.५१> सर्वासां चअनुरूपेण गम्याः सहायास् तद् उपरञ्जनम् अर्थआगमौपाया निष्कासनं पुनः सधानं लाभविशेषअनुबन्धा अर्थअनर्थअनुबन्धसंशयविचाराश् चैति वैशिकम्// भवतश् चअत्र श्लोकौ ---

६.६.५२कख> रत्यर्थाः पुरुषा येन रत्यर्थाश् चएव योषितः//

६.६.५२गघ> शास्त्रस्यअर्थप्रधानत्वात् तेन योगो +अत्र योषिताम्//

६.६.५३कख> सन्ति रागपरा नार्यः सन्ति चअर्थपरा अपि/

६.६.५३गघ> प्राक् तत्र वर्णितो रागो वेश्यायोगाश् च वैशिके//