The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

वैशिकं

Back to Kamasutra Menu Page

विशीर्णप्रतिसंधानं

६.४.१> वर्तमानं निष्पीडितअर्थम् उत्सृजन्ती पूर्वसंसृष्टेन सह संदध्यात्//

६.४.२> स चेद् अवसितअर्थो वित्तवान् सानुरागश् च ततः संधेयः//

६.४.३> अन्यत्र गतस् तर्कयितव्यः/ स कार्ययुक्त्या षड्विधः//

६.४.४> इतः स्वयम् अपसृतस् ततो +अपि स्वयम् एवअपसृतः/

६.४.५> इतस् ततश् च निष्कासितअपसृतः/

६.४.६> इतः स्वयम् अपसृतस् ततो निष्कासितअपसृतः/

६.४.७> इतः स्वयम् अपसृतस् तत्र स्थितः/

६.४.८> इतो निष्कासितअपसृतस् ततः स्वयम् अपसृतः/

६.४.९> इतो निष्कासितअपसृतस् तत्र स्थितः//

६.४.१०> इतस् ततश् च स्वयम् एवअपसृत्यौपजपति चेद् उभयोर् गुणान् अपेक्षी चलबुद्धिर् असंधेयः//

६.४.११> इतस् ततश् च निष्कासितअपसृतः स्थिरबुद्धिः/ स चेद् अन्यतो बहुलभमानया निष्कासितः स्यात् ससारो +अपि तया रोषितो ममअमर्षाद् बहु दास्यतिइति संधेयः//

६.४.१२> निःसारतया कदर्यतया वा त्यक्तो न श्रेयान्//

६.४.१३> इतः स्वयम् अपसृतस् ततो निष्कासितअपसृतो यद्य् अतिरिक्तम् आदौ च दद्यात् ततः प्रतिग्राह्यः//

६.४.१४> इतः स्वयम् अपसृत्य तत्र स्थित उपजपंस् तर्कयितव्यः//

६.४.१५> विशेषअर्थी चआगतस् ततो विशेषम् अपश्यन्न् आगन्तुकामो [मयि] मां जिज्ञासितुकामः स आगत्य सअनुरागत्वाद् दास्यति/ तस्यां वा दोषान् दृष्ट्वा मयि भूयिष्ठान् गुणान् अधुना पश्यति स गुणदर्शी भूयिष्ठं दास्यति//

६.४.१६> बालो वा नएकत्रदृष्टिर् अतिसंधानप्रधानो वा हरिद्रारागो वा यत् किंचनकारी वा इत्य् अवेत्य संदध्यान् न वा//

६.४.१७> इतो निष्कासितअपसृतस् ततः स्वयम् अपसृत उपजपंस् तर्कयितव्यः/ ६.४.१८> अनुरागाद् आगन्तुकामः स बहु दास्यति/ मम गुनैर् भावितो यो +अन्यस्यां न रमते//

६.४.१९> पूर्वम् अयोगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितुकामो धनम् अभियोगाद् वा मयाअस्यअपहृतं तद्विश्वास्य प्रतीपम् आदातुकामो निर्वेष्टुकामो वा मां वर्तमानौद्भेदयित्वा त्यक्तुकाम इत्य् अकल्याणबुद्धिर् असंधेयः//

६.४.२०> अन्यथाबुद्धिः कालेन लम्भयितव्यः//

६.४.२१> इतो निष्कासितस् तत्र स्थित उपजपन्न् एतेन व्याख्यातः//

६.४.२२> तेषु उपजपत्स्व् अन्यत्र स्थितः स्वयम् उपजपेत्//

६.४.२३> व्यलीकअर्थं निष्कासितो मयासावन् यत्र गतो यत्नाद् आनेतव्यः/

६.४.२४> इतः प्रवृत्तसंभाषो वा ततो भेदम् अवाप्स्यति/

६.४.२५> *वर्तमानस्य *चेद् अर्थविघातं[अन्यत्र : तदर्थअभिघातं] करिष्यति/

६.४.२६> अर्थआगमकालो वाअस्य/ स्थानवृद्धिर् अस्य जाता/ लब्धम् अनेनअधिकरणम्/ दारैर् वियुक्तः/ पारतन्त्र्याद् व्यावृत्तः/ पित्रा भ्रात्रा वा विभक्तः/

६.४.२७> अनेन वा प्रतिबद्धम् अनेन संधिं कृत्वा नायकं धनिनम् अवाप्स्यामि/

६.४.२८> विमानितो वा भार्यया तम् एव तस्यां विक्रमयिष्यामि/

६.४.२९> अस्य वा मित्रं मद्द्वेषिणीं सपत्नीं कामयते तद् अमुना भेदयिष्यामि/

६.४.३०> चलचित्ततया वा लाघवम् एनम् आपादयिष्यामिइति//

६.४.३१> तस्य पीठमर्दआदयो मातुर् दौःशील्येन नायिकायाः सत्य् अप्य् अनुरागे वशायाः पूर्वं निष्कासनं वर्णयेयुः/

६.४.३२> वर्तमानेन चअकामायाः संसर्गं विद्वेषं च/

६.४.३३> तस्याश् च सअभिज्ञानैः पूर्वअनुरागैर् एनं प्रत्यापयेयुः/

६.४.३४> अभिज्ञानं च तत्कृतौपकारसंबद्धं स्याद् इति विशीर्णप्रतिसंधानम्//

६.४.३५> अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान्/ स हि विदितशीलो दृष्टरागश् च सूपचारो भवतिइत्य् आचार्याः/

६.४.३६> पूर्वसंसृष्टः सर्वतो निष्पीडितअर्थत्वान् नअत्यर्थम् अर्थदो दुःखं च पुनर्विश्वासयितुम्/ अपूर्वस् तु सुखेनअनुरज्यत इति वात्स्यायनः/

६.४.३७> तथाअपि पुरुषप्रकृतितो विशेषः// भवन्ति चअत्र श्लोकाः---

६.४.३८अख > अन्यां भेदयितुं गम्याद् अन्यतो गम्यम् एव वा/

६.४.३८गघ> स्थितस्य चौपघाताअर्थं पुनः संधानम् इष्यते//

६.४.३९कख> बिभेत्यन्यस्य संयोगाद् व्यलीकानि च नईक्षते/

६.४.३९गघ> अतिसक्तः पुमान् यत्र भयाद् बहु ददाति च//

६.४.४०कख> असक्तम् अभिनन्देत सक्तं परिभवेत् तथा/

६.४.४०गघ> अन्यदूतअनुपाते च यः स्याद् अतिविशारदः//

६.४.४१कख> तत्रौपयायिनं पूर्वं नारी कालेन योजयेत्/

६.४.४१गघ> भवेच् चअच्छिन्नसंधाना न च सक्तं परित्यजेत्//(युग्मम्)

६.४.४२कख> सक्तं तु वशिनं नारी संभाष्यअप्य् अन्यतो व्रजेत्/

६.४.४२गघ> ततश् चअर्थम् उपादाय सक्तम् एवअनुरञ्जयेत्//

६.४.४३कख> आयतिं प्रसमीक्ष्याआदौ लाभं प्रीतिं च पुष्कलाम्/

६.४.४३गघ> सौहृदं प्रतिसंदध्याद् विशीर्णं स्त्री विचक्षणा//