The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

पारदारिकं

Back to Kamasutra Menu Page

आन्तःपुरिकं दाररक्षितकं

५.६.१> नअन्तःपुराणां रक्षणयोगात् पुरुषसंदर्शनं विद्यते पत्युश् चएकत्वाद् अनेकसाधारणत्वाच् चअतृप्तिः/ तस्मात् तानि प्रयोगत एव परस्परं रञ्जयेयुः//

५.६.२> धात्रेयिकां सखीं दासीं वा पुरुषवद् अलंकृत्यआकृतिसंयुक्तैः कन्दमूलफलअवयवैर् अपद्रव्यैर् वाआत्मअभिप्रायां निर्वर्तयेयुः//

५.६.३> पुरुषप्रतिमा अव्यक्तलिङ्गाश् चअधिशयीरन्//

५.६.४> राजानश् च कृपाशीला विनाअपि भावयोगाद् आयोजितअपद्रव्या यावद् अर्थम् एकया रात्र्या बह्वीभिर् अपि गच्छन्ति/ यस्यां तु प्रीतिर् वासक ऋतुव् वा तत्रअभिप्रायतः प्रवर्तन्त इति प्राच्यौपचाराः//

५.६.५> स्त्रीयोगेणएव पुरुषाणाम् अप्य् अलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलौपमर्दनाच् चअभिप्रायनिवृत्तिर् व्याख्याता//

५.६.६> योषव् एषांश् च नागरकान् प्रयेण अन्तःपुरिकाः परिचारिकाभिः सह प्रवेशयन्ति/

५.६.७> तेषाम् उपावर्तने धात्रेयिकाश् च अभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन्/

५.६.८> सुखप्रवेशिताम् अपसारभूमिं विशालतां वेश्मनः प्रमादं रक्षिणाम् अनित्यतां परिजनस्य वर्णयेयुः/

५.६.९> न चअसद्भूतेनअर्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात्//

५.६.१०> नागारकस् तु सुप्रापम् अप्य् अन्तःपुरम् अपायभूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः//

५.६.११> सअपसारं तु प्रमदवनअवगाढं विभक्तदीर्घकक्ष्यम् अल्पप्रमत्तरक्षकं प्रोषिताराजकं कारणानि समीक्ष्य बहुश आहूयमानो +अर्थबुद्ध्या कक्ष्याप्रवेशं च दृष्ट्वा ताभिर् एव विहितौपायः प्रविशेत्/

५.६.१२> शक्तिविषये च प्रतिदिनं निष्क्रामेत्//

५.६.१३> बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृज्येत/

५.६.१४> अन्तश्चारिण्यां च परिचारिकायां विदितअर्थायां सक्तम् आत्मानं रूपयेत्/ तद् अलाभाच् च शोकम् अन्तःप्रवेशिनीभिश् च दूतीकल्पं सकलम् आचरेत्/ ५.६.१५> राजप्रणिधींश् च बुध्येत/

५.६.१६> दूत्यास् त्व् असंचारे यत्र गृहीतआकारायाः प्रयोज्याया दर्शनयोगस् तत्रअवस्थानम्/ ५.६.१७> तस्मिन्न् अपि तु रक्षिषु परिचारिकाव्यपदेशः/

५.६.१८> चक्षुरनुबध्नत्याम् इङ्गितआकारनिवेदनम्/

५.६.१९> यत्र संपातो +अस्यास् तत्र चित्रकर्मणस् तद् युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानाम् आपीनकाना(कस्य)म् अङ्गुलीयकस्य च निधानम्/

५.६.२०> प्रत्युत्तरं तया दत्तं प्रपश्येत्/ ततः प्रवेशने यतेत//

५.६.२१> यत्र चअस्या नियतं गमनम् इति विद्यात् तत्र प्रच्छन्नस्य प्राग् एवअवस्थानम्/

५.६.२२> रक्षि(त)पुरुषरूपो वा तदनुज्ञातवेलायां प्रविशेत्/

५.६.२३> आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ/

५.६.२४> पुटअपुटयोगैर् वा नष्टच्छायारूपः/

५.६.२५> तत्रअयं प्रयोगः --- नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चअन्तर्धूमेन पचेत्/ ततो +अञ्जनेन समभागेन पेषयेत्/ अनेनअभ्यक्तनयनो नष्टच्छायारूपश् चरति/ (अन्यैश् च जलब्रह्मक्षेमशिरःप्रणीतैर् बाह्यपानकैर् वा)

५.६.२६> रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा// तत्रएतद् भवति ---

५.६.२७क > द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने/

५.६.२७ख > आपानकौत्सवअर्थे +अपि चेटिकानां च संभ्रमे//

५.६.२७ग> व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये/

५.६.२७घ> उद्यानयात्रागमने यात्रातश् च प्रवेशने//

५.६.२७ए> दीर्घकालौदयां यात्रां प्रोषिते चापि राजनि/

५.६.२७छ> प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा//

५.६.२८क > परस्परस्य कार्याणि ज्ञात्वा चअन्तःपुरआलयाः/

५.६.२८ख > एककार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्//

५.६.२८ग> दूषयित्वा ततो +अन्योन्यम् एककार्यअर्पणे स्थिरः/

५.६.२८घ> अभेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते//

५.६.२९> तत्र राजकुलचारिण्य एव लक्षण्यान् पुरुषान् अन्तःपुरं प्रवेशयन्ति नअतिसुरक्षत्वाद् आपरान्तिकानाम्/

५.६.३०> क्षत्रियसंज्ञकैर् अन्तःपुररक्षिभिर् एवअर्थं साधयन्त्य् आभीरकाणाम्/

५.६.३१> प्रेष्याभिः सह तद्वेषान् नागरकपुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम्/

५.६.३२> स्वैर् एव पुत्रैर् अन्तःपुराणि कामचारैर् जननीवर्जम् उपयुज्यन्ते वैदर्भकाणाम्/

५.६.३३> तथा प्रवेशिभिर् एव ज्ञातिसंबन्धिभिर् नअन्यैर् उपयुज्यन्ते स्त्रैराजकानाम्/

५.६.३४> ब्राह्मणैर् मित्रैर् भृत्यैर् दासचेटैश् च गौडानाम्/

५.६.३५> परिस्पन्दाः कर्मकराश् चअन्तःपुरेष्व् अनिषिद्धा अन्ये +अपि तद्रूपाश् च सैन्धवानाम्/

५.६.३६> अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्/

५.६.३७> पुष्पदाननियोगान् नगरब्राह्मणा राजविदितम् अन्तःपुराणि गच्छन्ति/ पटअन्तरितैश् चएषाम् आलापः/ तेन प्रसङ्गेन व्यतिकरो भवति वङ्गअङ्गकलिङ्गकानाम्/

५.६.३८> संहत्य नवदशैत्य् एकैकं वानं प्रच्छादयन्ति प्राच्यानाम् इति/ एवं परस्त्रियः प्रकुर्वीत/ इत्य् अन्तःपुरिकावृत्तम्//

५.६.३९> एभ्य एव च कारणेभ्यः स्वदारान् रक्षेत्//

५.६.४०> कामौपधाशुद्धान् रक्षिणो +अन्तःपुरे स्थापयेद् इत्य् आचार्याः/

५.६.४१> ते हि भयेन चअर्थेन चअन्यं प्रयोजयेयुस् तस्मात् कामभयअर्थौपधाशुद्धान् इति गोणिकापुत्रः/

५.६.४२> अद्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्मभयौपधाशुद्धान् इति वात्स्यायनः//

५.६.४३> परवाक्यअभिधायिनीभिश् च गूढआकाराभिः प्रमदाभिर् आत्मदारान् उपदध्याच् छौचअशौचपरिज्ञानअर्थम् इति बाभ्रवीयाः/

५.६.४४> दुष्टानां युवतिषु सिद्धत्वान् नअकस्माद् अदुष्टदूषणम् आचरेद् इति वात्स्यायनः//

५.६.४५> अतिगोष्ठी निरङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहअनियन्त्रणता/ प्रवासे +अवस्थानं विदेशे निवासः स्ववृत्त्युपघातः स्वैरिणीसंसर्गः पत्युर् ईर्ष्यालुता चैति स्त्रीणां विनाशकारणानि//

५.६.४६क > संदृश्य शास्त्रतो योगान् पारदारिकलक्षितान्/

५.६.४६ख > न याति च्छलनां कश्चित् स्वदारान् प्रति शास्त्रवित्//

५.६.४७क > पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात्/

५.६.४७ख > धर्मअर्थयोश् च वैलोम्यान् नअचरेत् पारदारिकम्/

५.६.४८क > तद् एतद् दारगुप्त्यर्थम् आरब्धं श्रेयसे नृणाम्/

५.६.४८ख > प्रजानां दूषणायएव न विज्ञेयो +अस्य संविधिः//