The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

पारदारिकं

Back to Kamasutra Menu Page

दूतीकर्माणि

५.४.१> दर्शितैङ्गितआकारां तु प्रविरलदर्शनाम् अपूर्वां च दूत्याउपसर्पयेत्/

५.४.२> साएनां शीलतो +अनुप्रविश्यआख्यानकपटैः सुभगंकरणयोगैर् लोकवृत्तअन्तैः कविकथाभिः पारदारिककथाभिश् च तस्याश् च रूपविज्ञानदाक्षिण्यशीलअनुप्रशंसाभिश् च तां रञ्जयेत्/

५.४.३> कथम् एवं विधायास् तवअयम् इथंभूतः पतिरिति चअनुशयं ग्राहयेत्/

५.४.४> न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात्/

५.४.५> मन्दवेगताम् ईर्ष्यालुतां शठताम् अकृतज्ञतां चअसंभोगशीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्य् अस्या अभ्याशे सति सद्भावे +अतिशयेन भाषेत/

५.४.६> येन च दोषेणौद्विग्नां क्षयेत् तेनएवअनुप्रविशेत्/

५.४.७> यदाअसौ मृगी तदा नएव शशतादोषः/

५.४.८> एतेनएव वडवाहस्तिनीविषयश् चौक्तः//

५.४.९> नायिकाया एव तु विश्वास्यताम् उपलभ्य दूतीत्वेनौपसर्पयेत् प्रथमसाहसायां सूक्ष्मभावायां चैति गोणिकापुत्रः//

५.४.१०> सा नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत्/ ५.४.११> प्रसृतसद्भावायां च युक्त्या कार्यशरीरम् इत्थं वदेत्/

५.४.१२> शृणु विचित्रम् इदं सुभगे, त्वां किल दृष्ट्वाअमुत्रअसाव् इत्थं गोत्रपुत्रो नायकश् चित्तौन्मादम् अनुभवति/ प्रकृत्या सुकुमारः कदा चिद् अन्यत्रअपरिक्लिष्टपूर्वस् तपस्वी/ ततो +अधुना शक्यम् अनेन मरणम् अप्य् अनुभवितुम् इति वर्णयेत्/

५.४.१३> तत्र सिद्धा द्वितीये +अहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत्/

५.४.१४> शृण्वत्यां चअहल्याअविमारकशाकुन्तलाआदीन्य् अन्यान्य् अपि लौकिकानि च कथयेत् तद्युक्तानि/

५.४.१५> वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य/ श्लाघनीयतां (या) चअस्य प्रच्छन्नं संप्रयोगं भूतम् अभूतपूर्वं वा वर्णयेत्/

५.४.१६> आकारं चअस्या लक्षयेत्//

५.४.१७> सविहसितं दृष्ट्वा संभाषते/

५.४.१८> आसने चौपनिमन्त्रयते/

५.४.१९> क्वासितं क्व शयितं *क्व[अन्यत्र : ोमित्स्] भुक्तं क्व चेष्टितं किं वा कृतम् इति पृच्छति/

५.४.२०> विविक्ते दर्शयत्य् आत्मानम्/

५.४.२१> आख्यानकानि नियुङ्क्ते/

५.४.२२> चिन्तयन्ती निःश्वसिति विजृम्भते च/

५.४.२३> प्रीतिदायं च ददाति/

५.४.२४> इष्टेषुउत्सवेषु च स्मरति/

५.४.२५> पुनर् दर्शनअनुबन्धं विसृजति/

५.४.२६> साधुवादिनी सती किम् इदम् अशोभनम् अभिधत्स इति कथाम् अनुबध्नाति/

५.४.२७> नायकस्य शाठ्यचापल्यसंबद्धान् दोशान् ददाति/

५.४.२८> पूर्वप्रवृत्तं च तत्संदर्शनं कथाअभियोगं च स्वयम् अकथयन्ती तयाउच्यमानम् आकाङ्क्षति/

५.४.२९> नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति/ न च निर्वदतिइति//

५.४.३०> दूत्य् एनां दर्शितआकारां नायकअभिज्ञानैर् उपबृंहयेत्/

५.४.३१> असंस्तुतां तु गुणकथनैर् अनुरागकथाभिश् चआवर्जयेत्//

५.४.३२> नअसंस्तुतअदृष्टआकारयोर् दूत्यम् अस्तिइत्य् औद्दालकिः/

५.४.३३> असंस्तुतयोर् अपि संसृष्टआकारयोर् अस्तिइति बाभ्रवीयाः/

५.४.३४> संस्तुतयोर् अप्य् असंसृष्टआकारयोर् अस्तिइति गोणिकापुत्रः/

५.४.३५> असंस्तुतयोर् अदृष्टआकारयोर् अपि दूतीप्रत्ययाद् इति वात्स्यायनः//

५.४.३६> तासां मनोहराण्य् उपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत्/

५.४.३७> तेषु नायकस्य यथाअर्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः/

५.४.३८> वाससि च कुङ्कुमअङ्कम् अञ्जलिं निदध्यात्/

५.४.३९> पत्त्रछेद्यानि नानाअभिप्रायआकृतिनि दर्शयेत्/ लेखपत्रगर्भाणि कर्णपत्त्राण्य् आपीडांश् च

५.४.४०> तेषु स्वमनोरथआख्यापनम्/ प्रतिप्राभृतदाने चएनां नियोजयेत्/

५.४.४१> एवं कृतपरस्परपरिग्रहयोश् च दूतीप्रत्ययः समागमः//

५.४.४२> स तु देवताअभिगमने यात्रायाम् उद्यानक्रीडायां जलअवतरणे विवाहे यज्ञव्यसनौत्सवेष्व् अग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रआरोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः/

५.४.४३> सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखौपाय इति गोणिकापुत्रः/

५.४.४४> तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तिताअत्ययप्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् अविज्ञातकालं च तन् नित्यं सुखौपायं चैति वात्स्यायनः//

५.४.४५> निसृष्टअर्था परिमितअर्था पत्रहारी स्वयंदूती मूढदूती भार्यादूती मूकदूती वातदूती चैति दूतीविशेषाः//

५.४.४६> नायकस्य नायिकायाश् च यथामनीषितम् अर्थम् उपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टअर्था//

५.४.४७> सा प्रायेण संस्तुतसंभाषणयोः/

५.४.४८> नायिकया प्रयुक्ता असंस्तुतसंभाषनयोर् अपि/

५.४.४९> कौतुकाच् चअनुरूपौ युक्ताव् इमौ परस्परस्यैत्य् असंस्तुतयोर् अपि//

५.४.५०> कार्यएकदेशम् अभियोगएकदेशं चौपलभ्य शेषं संपादयतिइति परिमितअर्था//

५.४.५१> सा दृष्टपरस्परआकारयोः प्रविरलदर्शनयोः//

५.४.५२> संदेशमात्रं प्रापयतिइति पत्रहारी//

५.४.५३> सा प्रगाढसद्भावयोः संसृष्टयोश् च देशकालसंबोधनअर्थम्//

५.४.५४> दौत्येन प्रहितअन्यया स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सहौपभोगं स्वप्ने वा कथयेत्/ गोत्रस्खलितं भार्यां चअस्य निन्देत्/ तद्व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत्/ नखदशनचिह्नितं वा किं चिद् दद्यात्/ भवते +अहम् अदौ दातुं संकल्पिताइति चअभिदधीत/ मम भार्याया का रमनीयाइति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती/

५.४.५५> तस्या विविक्ते दर्शनं प्रतिग्रहश् च/

५.४.५६> प्रतिग्रहच्छलेनअन्याम् अभिसंधायअस्याः संदेशश्रावणद्वारेण नायकं साधयेत् तां चौपहन्यात् साअपि स्वयंदूती/

५.४.५७> एतया नायको +अप्य् अन्यदूतश् च व्याख्यातः//

५.४.५८> नायकभार्यां मुग्धां विश्वास्यअयन्त्रणयाअनुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्/ योगाञ् शिक्षयेत्/ साकारं मण्डयेत्/ कोपम् एनां ग्राहयेत्/ एवं च प्रतिपद्यस्वैति श्रावयेत्/ स्वयं चअस्यां नखदशनपदानि निर्वर्तयेत्/ तेन द्वारेण नायकम् आकारयेत् सा मूढदूती//

५.४.५९> तस्यास् तयाएव प्रत्युत्तराणि योजयेत्//

५.४.६०> स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयाएवआकारयेत्/ आत्मनश् च वैचक्षण्यं प्रकाशयेत्/ सा भार्या दूती/ तस्यास् तयाएवआकारग्रहणम्//

५.४.६१> बालां वा परिचारिकाम् अदोषज्ञाम् अदुष्टेनौपायेन प्रहिणुयात्/ तत्र स्रजि कर्णपत्त्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती/ तस्यास् तया एव प्रत्युत्तरप्रार्थनम्//

५.४.६२> पूर्वप्रस्तुतअर्थलिङ्गसंबद्धम् अन्यजनअग्रहणीयं लौकिकअर्थं द्व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वातदूती/ तस्या अपि तयाएव प्रत्युत्तरप्रार्थनम् इति तासां विशेषाः// भवन्ति चअत्र श्लोकाः ---

५.४.६३कख> विधवाईक्षणिका दासी भिक्षुकी शिल्पकारिका/

५.४.६३गघ> प्रविशत्य् आशु विश्वासं दूतीकार्यं च विन्दति//

५.४.६४कख> विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्/

५.४.६४गघ> चित्रान् सुरतसंभोगान् अन्यासाम् अपि दर्शयेत्//

५.४.६५कख> नायकस्यअनुरागं च पुनश् च रतिकौशलम्/

५.४.६५गघ> प्रार्थनां चअधिकस्त्रीभिर् अवष्टम्भं च वर्णयेत्//

५.४.६६कख> असंकल्पितम् अप्य् अर्थम् उत्सृष्टं दोषकारणात्/

५.४.६६गघ> पुनर् आवर्तयत्य् एव दूती वचनकौशलात्//