The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

पारदारिकं

Back to Kamasutra Menu Page

भावपरीक्षा

५.३.१> अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत/ तया भावः परीक्षितो भवति/ अभियोगांश् च प्रतिगृह्णीयात्//

५.३.२> मन्त्रम् अवृण्वानां दूत्याएनां साधयेत्//

५.३.३> अप्रतिगृह्यअभियोगं पुनर् अपि संसृज्यमानां द्विधा भूतमानसां विद्यात्/ तां क्रमेण साधयेत्//

५.३.४> अप्रतिगृह्यअभियोगं सविशेषम् अलंकृता च पुनर् दृश्येत तथाएव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात्//

५.३.५> बहून् अपि विषहते +अभियोगान् न च चिरेणअपि प्रयच्छत्य् आत्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या//

५.३.६> मनुष्यजातेश् चित्तअनित्यत्वात्//

५.३.७> अभियुक्तअपि परिहरति/ न च संसृज्यते/ न च प्रत्याचष्टे/ तस्मिन्न् आत्मनि च गौरवअभिमानात्/ सअतिपरिचयात् कृच्छ्रसाध्या/ मर्मज्ञया दूत्या तां साधयेत्//

५.३.८> सा चेद् अभियुज्यमाना पारुष्येण प्रत्यादिशत्य् उपेक्ष्या//

५.३.९> परुषयित्वाअपि तु प्रीतियोजिनीं साधयेत्//

५.३.१०> कारणात् संस्पर्शनं सहते नअवबुध्यते नाम द्विधाभूतमानसा सातत्येन क्षान्त्या वा साध्या/

५.३.११> समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत्/ सापि सुप्ताइवौपेक्षते/ जाग्रती त्व् अपनुदेद् भूयो +अभियोगआकाङ्क्षिणी//

५.३.१२> एतेन पादस्यौपरि पादन्यासो व्याख्यातः/

५.३.१३> तस्मिन् प्रसृते भूयः सुप्तसंश्लेषणम् उपक्रमेत्/

५.३.१४> तदसहमानाम् उत्थितां द्वितीये +अहनि प्रकृतिवर्तिनीम् अभियोगअर्थिनीं विद्यात्/ अदृश्यमानां तु दूतीसाध्याम्//

५.३.१५> चिरम् अदृष्टाअपि प्रकृतिस्थाएव संसृज्यते कृतलक्षणां तां दर्शितआकाराम् उपक्रमेत्//

५.३.१६> अनभियुक्ताअप्य् आकारयति/ विविक्ते चआत्मानं दर्शयति/ सवेपथुगद्गदं वदति/ स्विन्नकरचरणअङ्गुलिः स्विन्नमुखी च भवति/ शिरःपीडने संवाहने चऊर्वोर् आत्मानं नायके नियोजयति/

५.३.१७> आतुरा संवाहिका चएकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शम् आवेदयति श्लेषयति च/ विस्मितभावा/

५.३.१८> निद्राअन्धा वा परिस्पृश्यऊरुभ्यां बाहुभ्याम् अपि तिष्ठति/ अलिकैकदेशम् ऊर्वोर् उपरि पातयति/ ऊरूमूलसंवाहने नियुक्ता न प्रतिलोमयति/ तत्रएव हस्तम् एकम् अविचलं न्यस्यति/ अङ्गसंदंशेन च पीडितं चिराद् अपनयति/

५.३.१९> प्रतिगृह्यएवं नायकाअभियोगान् पुनर् द्वितीये +अहनि संवाहनायौपगच्छति/

५.३.२०> नअत्यर्थं संसृज्यते/ न च परिहरति/

५.३.२१> विविक्ते भावं दर्शयति निष्कारणं चअगूढम् अन्यत्र प्रच्छन्नप्रदेशात्/

५.३.२२> संनिकृष्टपरिचारकौपभोग्या सा चेद् आकारिताअपि तथाएव स्यात् सा मर्मज्ञया दूत्या साध्या/

५.३.२३> व्यावर्तमाना तु तर्कणीयाइति भावपरीक्षा// भवन्ति चअत्र श्लोकाः ---

५.३.२४कख> आदौ परिचयं कुर्यात् ततश् च परिभाषणम्/

५.३.२४गघ> परिभाषणसंमिश्रं मिथश् चआकारवेदनम्//

५.३.२५कख> प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्/

५.३.२५गघ> ततो +अभियुञ्जीत नरः स्त्रियं विगतसाध्वसः//

५.३.२६कख> आकारेणआत्मनो भावं या नारी प्राक् प्रयोजयेत्/

५.३.२६गघ> क्षिप्रम् एवअभियोज्या सा प्रथमे त्व् एव दर्शने//

५.३.२७कख> श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम्/

५.३.२७गघ> साअपि तत्क्षणसिद्धाइति विज्ञेया रतिलालसा//

५.३.२८कख> धीरआयामप्रगल्भायां परीक्षिण्यां च योषिति/

५.३.२८गघ> एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः//