The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

पारदारिकं

Back to Kamasutra Menu Page

परिचयकारणान्य् अभियोगा छेच्केद्

५.२.१> यथाकन्या स्वयम् अभियोगसाध्या न तथा दूत्या/ परस्त्रियस् तु सूक्ष्मभावा दूतीसाध्या न तथाआत्मनाइत्य् आचार्याः//

५.२.२> सर्वत्र शक्तिविषये स्वयं साधनम् उपपन्नतरकं दुरुपपादत्वात् तस्य दूतीप्रयोग इति वात्स्यायनः//

५.२.३> प्रथमसाहसा अनियन्त्रणसंभाषाश् च स्वयं प्रतार्याः/ तद्विपरीताश् च दूत्याइति प्रायोवादः//

५.२.४> स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात्//

५.२.५> तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च/

५.२.६> स्वाभाविकम् आत्मनो भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्यभवनसंनिकर्षे विवाहयज्ञौत्सवव्यसनौद्यानगमनआदिषु//

५.२.७> दर्शने चअस्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच् छुरणम् आभरणप्रह्लादनम् अधरओष्ठविमर्दनं तास् ताश् च लीला वयस्यैः सह प्रेक्षमाणायास् तत्संबद्धाः परअपदेशिन्यश् च कथास् त्यागौपभोगप्रकाशनं सख्युर् उत्सङ्गनिषण्णस्य साङ्गभङ्गं जृंभणम् एकभ्रूक्षेपणं मन्दवाक्यता तद्वाक्यश्रवणं ताम् उद्दिश्य बालेनअन्यजनेन वा सहान्यौपदिष्टा द्व्यर्था कथा तस्यां स्वयं मनोरथअवेदनम् अन्यअपदेशेन ताम् एवौद्दिश्य बालचुम्बनम् आलिङ्गनं च जिह्वया चअस्य ताम्बूलदानं प्रदेशिन्या हनुदेशघट्टनं तत् तद् यथायोगं यथाअवकाशं च प्रयोक्तव्यम्/

५.२.८> तस्याश् चअङ्कगतस्य बालस्य लालनं बालक्रीडनकानां चअस्य दानं ग्रहणं तेन संनिकृष्टत्वात् कथायोजनं तत्संभाषणक्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तदनुबन्धं च गमनअगमनस्य योजनं संश्रये चअस्यास् ताम् अपश्यतो नाम कामसूत्रसंकथा//

५.२.९> प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्/ तत्प्रतिदिनं प्रतिक्षणं चएकदेशतो गृह्नीयात्/ सौगन्धिकं पूगफलानि च/

५.२.१०> ताम् आत्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तआसने च योजयेत्

५.२.११> नित्यदर्शनअर्थं विश्वासनअर्थं च/

५.२.१२> सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्ज्कआदिषु च कामअर्थिन्यां सहआत्मनो वश्यैश् चएषां तत्संपादने स्वयं प्रयतेत/

५.२.१३> तद् अनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः/

५.२.१४> तस्मिंश् चअन्येषाम् अपि कर्मणाम् अनुसंधानम्/

५.१.१५> येन कर्मणा द्रव्येण कौशलेन चअर्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं चआत्मआयत्तं दर्शयेत्/

५.२.१६> पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः/

५.२.१७> तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत्/

५.२.१८> तया तु विवदमानो +अत्यन्ताद् भुतम् इति ब्रूयाद् इति परिचयकारणानि//

५.२.१९> कृतपरिचयां दर्शितैङ्गितआकारां कन्याम् इवौपायतो +अभियुञ्जीतैति/ प्रायेण तत्र सूक्ष्मा अभियोगाः/ कन्यानाम् असंप्रयुक्तत्वात्/ इतरासु तान् एव स्फुटम् उपदध्यात्/ संप्रयुक्तत्वात्/

५.२.२०> संदर्शितआकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्य् उपयुञ्जीत/

५.२.२१> तत्र महार्हगन्धम् उत्तरीयं कुसुमं *च आत्मीयं[अन्यत्र : ोमित्स्] स्याद् अङ्गुलीयकं च/ तद्धस्ताद् गृहीतताम्बूलया गोष्ठीगमनौद्यतस्य केशहस्तपुष्पयाचनम्/

५.२.२२> तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात्/

५.२.२३> अधिकैर् अधिकैश् चअभियोगैः साध्वसविच्छेदनम्//

५.२.२४> क्रमेण च विविक्तदेशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानअन्ते द्रव्याणां परिवर्तनं गुह्यदेशअभिमर्शनं चैत्य् अभियोगाः//

५.२.२५> यत्र चएकअभियुक्ता न तत्रअपराम् अभियुञ्जीत/ तत्र या वृद्धअनुभूतविषया प्रियौपग्रहैश् च ताम् उपगृह्णीयात्// श्लोकाव् अत्र भवतः ---

५.२.२७कख> अन्यत्र दृष्टसंचारस् तद्भर्ता यत्र नायकः/

५.२.२७गघ> न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्//

५.२.२८कख> शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम्//

५.२.२८गघ> न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः//