The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

भार्याधिकारिकं

Back to Kamasutra Menu Page

ज्येष्ठादिवृत्त

४.२.१> जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजान् उत्पत्तेर् आभीक्ष्ण्येन दारिकौत्पत्तेर् नायकचापलाद् वा सपत्न्यधिवेदनम्//

४.२.२> तदाआदित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत्/ प्रजान् उत्पत्तौ च स्वयम् एव सापत्नके चोदयेत्//

४.२.३> अधिविद्यमाना च यावच् छक्तियोगाद् आत्मनो +अधिकत्वेन स्थितिं कारयेत्//

४.२.४> आगतां चएनां भगिनीवद् ईक्षेत/ नायकविदितं च प्रादोषिकं विधिम् अतीव यत्नाद् अस्याः कारयेत् सौभाग्यजं वैकृतम् उत्सेकं वाअस्या नअद्रियेत// ४.२.५> भर्तरि प्रमाद्यन्तीम् उपेक्षेत/ यत्र मन्येतअर्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्रएनाम् आदरत एवअनुशिष्यात्//

४.२.६> नायकसंश्रवे च रहसि विशेषान् अधिकान् दर्शयेत्//

४.२.७> तदपत्येष्व् अविशेषः/ परिजनवर्गे +अधिकअनुकम्पा/ मित्रवर्गे प्रीतिः/ आत्मज्ञातिषु नअत्यादरः/ तज्ज्ञातिषु चअतिसंभ्रमः//

४.२.८> बह्वीभिस् त्व् अधिविन्ना अव्यवहितया संसृज्येत//

४.२.९> यां तु नायको +अधिकां चिकीर्षेत् तां भूतपूर्वसुभगया प्रोत्साह्य कलहयेत्//

४.२.१०> ततश् चअनुकम्पेत//

४.२.११> ताभिर् एकत्वेनअधिकां चिकीर्षितां स्वयम् अविवदमाना दुर्जनी कुर्यात्//

४.२.१२> नायकेन तु कलहिताम् एनां पक्षपाताव् अलम्बनौपबृंहिताम् आश्वासयेत्//

४.२.१३> कलहं च वर्धयेत्//

४.२.१४> मन्दं वा कलहम् उपलभ्य स्वयम् एव संधुक्षयेत्//

४.२.१५> यदि नायको +अस्याम् अद्यअपि सानुनय इति मन्येत तदा स्वयम् एव संधौ प्रयतेतैति ज्येष्ठावृत्तम्//

४.२.१६> कनिष्ठा तु मातृवत् सपत्नीं पश्येत्//

४.२.१७> ज्ञातिदायम् अपि तस्या अविदितं नौपयुञ्जीत//

४.२.१८> आत्मवृत्तान् तांस् तदधिष्ठितान् कुर्यात्//

४.२.१९> अनुज्ञाता पतिम् अधिशयीत//

४.२.२०> न वा तस्या वचनम् अन्यस्याः कथयेत्//

४.२.२१> तदपत्यानि स्वेभ्यो +अधिकानि पश्येत्//

४.२.२२> रहसि पतिम् अधिकम् उपचरेत्//

४.२.२३> आत्मनश् च सपत्नीविकारजं दुःखं नआचक्षीत//

४.२.२४> पत्युश् च सविशेषकं गूढं मानं लिप्सेत्//

४.२.२५> अनेन खलु पथ्यदानेन जीवामिइति ब्रूयात्//

४.२.२६> तत् तु श्लाघया रागेण वा बहिर् नअचक्षीत//

४.२.२७> भिन्नरहस्या हि भर्तुर् अवज्ञां लभते//

४.२.२८> ज्येष्ठाभयाच् च निगूढसंमानाअर्थिनी स्याद् इति गोनर्दीयः//

४.२.२९> दुर्भगाम् अनपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन चअनुकम्पयेत्//

४.२.३०> प्रसह्य त्व् एनाम् एकचारिणीवृत्तम् अनुतिष्ठेद् इति कनिष्ठावृत्तम्//

४.२.३१> विधवा त्व् इन्द्रियदौर्बल्याद् आतुरा भोगिनं गुणसंपन्नं च या पुनर् विन्देत् सा पुनर्भूः//

४.२.३२> यतस् तु स्वेच्छया पुनर् अपि निष्क्रमणं निर्गुणो +अयम् इति तदा अन्यं काङ्क्षेद् इति बाभ्रवीयाः//

४.२.३३> सौख्याअर्थिनी सा किलअन्यं पुनर् विन्देत//

४.२.३४> गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात् ततो विशेष इति गोनर्दीयः//

४.२.३५> आत्मनश् चित्तअनुकूल्याद् इति वात्स्यायनः//

४.२.३६> सा बान्धवैर् नायकाद् आपानकौद्यानश्रद्धादानमित्रपूजनआदि व्ययसहिष्णु कर्म लिप्सेत//

४.२.३७> आत्मनः सारेण वालंकारं तदीयम् आत्मीयं वा बिभृयात्//

४.२.३८> प्रीतिदायेष्व् अनियमः//

४.२.३९> स्वेच्छया च गृहान् निर्गच्छन्ती प्रीतिदायाद् अन्यन् नायकदत्तं जीयेत/ निष्कास्यमाना तु न किं चिद् दद्यात्//

४.२.४०> सा *प्रभुविष्णुर्[अन्यत्र : प्रभविष्णुर्] इव तस्य भवनम् आप्नुयात्//

४.२.४१> कुलजासु तु प्रीत्या वर्तेत//

४.२.४२> दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः/ कलासु कौशलम् अधिकस्य च ज्ञानम्//

४.२.४३> कलहस्थानेषु च नायकं स्वयम् उपालभेत// ४.२.४४> रहसि च कलया चतुःषष्ट्याअनुवर्तेत/ सपत्नीनां च स्वयम् उपकुर्यात्/ तासाम् अपत्येष्व् आभरणदानम्/ तेषु *स्वामिवद्[अन्यत्र : स्वामीवद्] उपचारः/ मण्डनकानि वेषान् आदरेण कुर्वीत/ परिजने मित्रवर्गे चअधिकं विश्राणनम्/ समाजआपानकौद्यानयात्राविहारशीलता चैति पुनर्भूवृत्तम्//

४.२.४५> दुर्भगा तु सापत्नकपीडिता या तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत्/ *प्रकाश्यानि[अन्यत्र : प्रकाम्यानि] च कलाविज्ञानानि दर्शयेत्/ दौर्भाग्याद् रहस्यानाम् अभावः//

४.२.४६> नायकअपत्यानं धात्रेयिकानि कुर्यात्//

४.२.४७> तन् मित्राणि चौपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत्//

४.२.४८> धर्मकृत्येषु च पुरश्चारिणी स्याद् व्रतौपवासयोश् च//

४.२.४९> परिजने दाक्षिण्यम्/ न चअधिकम् आत्मानं पश्येत्//

४.२.५०> शयने तत्सात्म्येनआत्मनो +अनुरागप्रत्यानयनम्//

४.२.५१> न चौपालभेत वामतां च न दर्शयेत्//

४.२.५२> यया च कलहितः स्यात् कामं ताम् आवर्तयेत्//

४.२.५३> यां च प्रच्छन्नां कामयेत् ताम् अनेन सह संगमयेद् गोपयेच् च//

४.२.५४> यथा च पतिव्रतात्वम् अशाठ्यं नायको मन्येत तथा प्रतिविद् अध्याद् इति दुर्भगावृत्तम्//

४.२.५५> अन्तःपुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत्//

४.२.५६> माल्याअनुलेपनवासांसि चआसां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति/

४.२.५७> तदादाय राजा निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात्/

४.२.५८> अलंकृतश् च स्वलंकृतानि चअपराह्णे सर्वाण्य् अन्तःपुराण्यएकध्येन पश्येत्//

४.२.५९> तासां यथाकालं यथाअर्हं च स्थानमानअनुवृत्तिः सपरिहासाश् च कथाः कुर्यात्//

४.२.६०> तदनन्तरं पुनर्भुवस् तथाएव पश्येत्//

४.२.६१> ततो वेश्या आभ्यन्तरिका नाटकीयाश् च//

४.२.६२> तासां यथोक्तकक्षाणि स्थानानि//

४.२.६३> वासकपाल्यस् तु यस्या वासको यस्याश् चअतीतो यस्याश् च ऋतुस् तत्परिचारिकअनुगता दिवा शय्याउत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयकअङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः/

४.२.६४> तत्र राजा यद् गृह्णीयात् तस्या वासकम् आज्ञापयेत्//

४.२.६५> उत्सवेषु च सर्वासाम् अनुरूपेण पूजाआपानकं च/ संगीतदर्शनेषु च//

४.२.६६> अन्तःपुरचारिणीनां बहिर् अनिष्क्रमो बाह्यानां चअप्रवेशः/ अन्यत्र विदितशौचाभ्यः/ अपरिक्लिष्टश् च कर्मयोग इत्य् आन्तःपुरिकम्// भवन्ति चअत्र श्लोकाः ---

४.२.६७कख> पुरुषस् तु बहून् दारान् समाहृत्य समो भवेत्/

४.२.६७गघ> न चअवज्ञां चरेद् आसु व्यलीकान् न सहेत च//

४.२.६८कख> एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम्/

४.२.६८गघ> विस्रम्भाद् वाअप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्//

४.२.६९कख> न दद्यात् प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित्/

४.२.६९गघ> तथाउपालभमानां च दोषैस् ताम् एव योजयेत्//

४.२.७०कख> अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्षपूजनैः/

४.२.७०गघ> बहुमानैस् तथा चअन्याम् इत्य् एवं रञ्जयेत् स्त्रियः//

४.२.७१कख> उद्यानगमनैर् भोगैर् दानैस् तज्ज्ञातिपूजनैः/

४.२.७१गघ> रहस्यैः प्रीतियोगैश् चैत्य् एकैकाम् अनुरञ्जयेत्//

४.२.७२कख> युवतिश् च जितक्रोधा यथाशास्त्रप्रवर्तिनी/

४.२.७२गघ> करोति वश्यं भर्तारं सपत्नीश् चअधितिष्ठति//