The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

भार्याधिकारिकं

Back to Kamasutra Menu Page

एकचारिणीवृत्तं प्रवासचर्या च

४.१.१> भार्याएकचारिणी गूढविश्रम्भा देववत् पतिम् आनुकूल्येन वर्तेत//

४.१.२> तन्मतेन कुटुम्बचिन्ताम् आत्मनि संनिवेशयेत्//

४.१.३> वेश्म च शुचि सुसंमृष्टस्थानं विरचितविविधकुसुमं श्लक्ष्णभूमितलं हृद्यदर्शनं त्रिषवणआचरितबलिकर्म पूजितदेवआयतनं कुर्यात्//

४.१.४> न ह्य् अतो +अन्यद्गृहस्थानां चित्तग्राहकम् अस्तिइति गोनर्दीयः//

४.१.५> गुरुषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाअर्हं प्रतिपत्तिः//

४.१.६> परिपूतेषु च हरितशाकवप्रान् इक्षुस्तम्बाञ् जीरकसर्षपअजमोदशतपुष्पातमालगुल्मांश् च कारयेत्//

४.१.७> कुब्जकआमलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तज् अपागुल्मान् अन्यांश् च बहुपुष्पान् बालकौशीरकपातालिकांश् च वृक्षवाटिकायां च स्थण्डिलानि मनोज्ञानि कारयेत्//

४.१.८> मध्ये कूपं वापीं दीर्घिकां वा खानयेत्//

४.१.९> भिक्षुकीश्रमणाक्षपणाकुलटाकुहकाईक्षणिकामूलकारिकाभिर् न संसृज्येत//

४.१.१०> भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् अपथ्यम् इदम् इति च विन्द्यात्//

४.१.११> स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा भवनमध्ये तिष्ठेत्//

४.१.१२> परिचारिकाम् अपनुद्य स्वयं पादौ प्रक्षालयेत्//

४.१.१३> नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत्//

४.१.१४> अतिव्ययम् असद्व्ययं वा कुर्वाणां रहसि बोधयेत्//

४.१.१५> आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताअभिगमनम् इत्य् अनुज्ञाता कुर्यात्//

४.१.१६> सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः//

४.१.१७> पश्चात् संवेशनं पूर्वम् उत्थानम् अनवबोधनं च सुप्तस्य//

४.१.१८> महानसं च सुगुप्तं स्याद् दर्शनीयं च//

४.१.१९> नायकअपचारेषु किं चित् कलुषिता नअत्यर्थं निर्वदेत्//

४.१.२०> साधिक्षेपवचनं त्व् एनं मित्रजनमध्यस्थम् एकाकिनं वाअप्य् उपालभेत/ न च मूलकारिका स्यात्//

४.१.२१> न ह्य् अतो +अन्यद् अप्रत्ययकारणम् अस्तिइति गोनर्दीयः//

४.१.२२> दुर्व्याहृतं दुर्निरीक्षितम् अन्यतो मन्त्रणं द्वारदेशअवस्थानं निरीक्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत्//

४.१.२३> स्वेददन्तपङ्कदुर्गन्धांश् च बुध्येतैति विरागकारणम्//

४.१.२४> बहुभूषणं विविधकुसुमअनुलेपनं विविधअङ्गरागसमुज्ज्वलं वास इत्य् आभिगामिको वेषः/

४.१.२५> प्रतनुश्लक्ष्णअल्पदुकूलता परिमितम् आभरणं सुगन्धिता नअत्युल्बणम् अनुलेपनम्/ तथा शुक्लान्य् अन्यानि पुष्पाणिइति वैहारिको वेषः//

४.१.२६> नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेनअनुवर्तेत/ वारितायां च नअहम् अत्र निर्बन्धनीयैति तद्वचसो निवर्तनम्//

४.१.२७> मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्घग्रहणम्//

४.१.२८> तथा लवणस्नेहयोश् च गन्धद्रव्यकटुकभाण्डओषधानां च दुर्लभानां भवनेसु प्रच्छन्नं निधानम्//

४.१.२९> मूलकआलुकपालङ्की दमनकआम्रातकएर्वारुकत्रपुसवार्ताककूष्माण्डआलाबुसूरणशुकनासा स्वयंगुप्तातिलपर्णीकअग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वओषधीनां च बीजग्रहणं काले वापश् च//

४.१.३०> स्वस्य च सारस्य परेभ्यो नआख्यानं भर्तृमन्त्रितस्य च//

४.१.३१> समानाश् च स्त्रियः कौशलेनौज्ज्वलतया पाकेन मानेन तथाउपचारैर् अतिशयीत//

४.१.३२> सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात्//

४.१.३३> भोजनअवशिष्टाद् गोरसाद् घृतकरणम् तथा तैलगुडयोः/ कर्पासस्य च सूत्रकर्तनम् सूत्रस्य वानम्/ शिक्यरज्जुपाशवल्कलसंग्रहणम्/ कुट्टनकण्डनअवेक्षणम्/ *आचाम[अन्यत्र : ामचा]मण्डतुष*कण[अन्यत्र : कख]कुट्यङ्गाराणाम् उपयोजनम्/ भृत्यवेतनभरणज्ञानम्/ कृषिपशुपालनचिन्तावाहनविधानयोगाः/ मेश*कुक्कट[अन्यत्र : कुक्कुट]लावकशुकशारिकापरभृतमयूरवानरमृगा णाम् अवेक्षणम्/ दैवसिकायव्ययपिण्डीकरणम् इति च विद्यात्//

४.१.३४> तज्जघन्यानां च जीर्णवाससां संचयस् तैर् विविधरागैः शुद्धैर् वा कृतकर्मणां परिचारकाणाम् अनुग्रहो मानअर्थेषु च दानम् अन्यत्र वाउपयोगः//

४.१.३५> सुराकुम्भीनाम् आसवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयाव् आयव्ययाअवेक्षणम्//

४.१.३६> नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः/

४.१.३७> श्वश्रूश्वशुरपरिचर्या तत्पारतन्त्र्यम् अनुत्तरवादिता परिमितअप्रचण्डआलापकरणम् अनुच्चैर् हासः/ तत्प्रियअप्रियेषु स्वप्रियअप्रियेष्व् इव वृत्तिः/

४.१.३८> भोगेष्व् अनुत्सेकः/

४.१.३९> परिजने दाक्षिण्यम्/

४.१.४०> नायकस्यअनिवेद्य न कस्मै द् दानम्/

४.१.४१> स्वकर्मसु भृत्यजननियमनम् उत्सवेषु चअस्य पूजनम् इत्य् एकचारिणीवृत्तम्//

४.१.४२> प्रवासे मङ्गलमात्रआभरणा देवताउपवासपरा वार्तायां स्थिता गृहान् अवेक्षेत//

४.१.४३> शय्या च गुरुजनमूले/ तद् अभिमता कार्यनिष्पत्तिः/ नायकअभिमतानां चअर्थानाम् अर्जने प्रतिसंस्कारे च यत्नः//

४.१.४४> नित्यनैमित्तिकेषु कर्मसुउचितो व्ययः/ तदारब्धानां च कर्मणां समापने मतिः//

४.१.४५> ज्ञातिकुलस्यअनभिगमनम् अन्यत्र व्यसनौत्सवाभ्याम्/ तत्रअपि नायकपरिजनअधिष्ठिताया नअतिकालम् अवस्थानम् अपरिवर्तितप्रवासवेषता च//

४.१.४६> गुरुजनअनुज्ञातानां करणम् उपवासानाम्/ परिचारकैः शुचिभिर् आज्ञाअधिष्ठितैर् अनुमतेन क्रयविक्रयकर्मणा सारस्यआपूरणं तनूकरणं च शक्त्या व्ययानाम्//

४.१.४७> आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनम् उपहाराणां चआहरणम् इति प्रवासचर्या// भवतश् चअत्र श्लोकौ/

४.१.४८कख> *सद्[अन्यत्र : तद्]वृत्तम् अनुवर्तेत नायकस्य हितएषिणी/

४.१.४८गघ> कुलयोषा पुनर्भूर् वा वेश्या वाअप्य् एकचारिणी//

४.१.४९कख> धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च/

४.१.४९गघ> निःसपत्नं च भर्तारं नार्यः सद्वृत्तम् आश्रिताः//