The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

कन्यासंप्रयुक्तकं

Back to Kamasutra Menu Page

विवाहयोग

३.५.१> प्राचुर्येण कन्याया विविक्तदर्शनस्यआलाभे धात्रेयिकां प्रियहिताभ्याम् उपगृह्यौपसर्पेत्//

३.५.२> सा चएनाम् अविदिता नाम नायकस्य भूत्वा तद्गुणैर् अनुरञ्जयेत्/ तस्याश् च रुच्यान् नायकगुणान् भूयिष्ठम् उपवर्णयेत्/

३.५.३> अन्येषां वरपितॄणां दोशान् अभिप्रायविरुद्धान् प्रतिपादयेत्/

३.५.४> मातापित्रोश् च गुणान् अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्/

३.५.५> याश् चअन्या अपि समानजातीयाः कन्याः शकुन्तलाआद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म ताश् चअस्या निदर्शयेत्/

३.५.६> महाकुलेषु सअपत्नकैर् बाध्यामाना *विद्विष्टा[अन्यत्र : विद्विष्टाः] दुःखिताः परित्यक्ताश् च दृश्यन्ते/

३.५.७> आयतिं चअस्य वर्णयेत्/

३.५.८> सुखम् अनुपहतम् एकचारितायां *नायिका[अन्यत्र : नायका]अनुरागं च वर्णयेत्/

३.५.९> समनोरथायाश् चअस्या अपायं साध्वसं व्रीडां च हेतुभिर् अवच्छिन्द्यात्/

३.५.१०> दूतीकल्पं च सकलम् आचरेत्/

३.५.११> त्वाम् अजानतीम् इव नायको बलाद् ग्रहीष्यतिइति तथा सुपरिगृहीतं स्याद् इति योजयेत्//

३.५.१२> प्रतिपन्नाम् अभिप्रेतअवकाशवर्तिनीं नायकः श्रोत्रियआगाराद् अग्निम् आनाय्य कुशान् आस्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत्/

३.५.१३> ततो मातरि पितरि च प्रकाशयेत्/

३.५.१४> अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्य् आचार्यसमयः//

३.५.१५> दूषयित्वा चएनां शनैः स्वजने प्रकाशयेत्/

३.५.१६> तद्बान्धवाश् च यथा कुलस्यअधं परिहरन्तो दण्डभयाच् च तस्मा एवएनां दद्युस् तथा योजयेत्/

३.५.१७> अनन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान् प्रीणयेद् इति/

३.५.१८> गान्धर्वेण विवाहेन वा चेष्टेत//

३.५.१९> अप्रतिपद्यमानायाम् अन्तश् चारिणीम् अन्यां कुलप्रमदां पूर्वसंसृष्टां प्रीयमाणां चौपगृह्य तया सह विषह्यम् अवकाशम् एनाम् अन्यकार्यअपदेशेनआनययेत्/

३.५.२०> ततः श्रोत्रियआगाराद् अग्निम् इति समानं पूर्वेण//

३.५.२१> आसन्ने च विवाहे मातरम् अस्यास् तद् अभिमतदोषैर् अनुशयं ग्राहयेत्/

३.५.२२> ततस् तदनुमतेन प्रातिवेश्यअभवने निशि नायकम् आनाय्य श्रोत्रियआगाराद् अग्निम् इति समानं पूर्वेण//

३.५.२३> भ्रातरम् अस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तम् असुकरेण साहायदानेन प्रियौपग्रहैश् च सुदीर्घकालम् अनुरञ्जयेत्/ अन्ते च स्वअभिप्रायं ग्राहयेत्/

३.५.२४> प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति/ ततस् तेनएवअन्यकार्यात् ताम् आनाययेत्/ विषह्यं साअवकाशम् इति समानं पूर्वेण//

३.५.२५> अष्टमीचन्द्रिकआदिषु च धात्रेयिका मदनीयम् एनां पाययित्वा किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत्/ तत्रएनां मदात् संज्ञाम् अप्रतिपद्यमानां दूषयित्वाइति समानं पूर्वेण//

३.५.२६> सुप्तां चएकचारिणीं धात्रेयिकां वारयित्वा संज्ञाम् अप्रतिपद्यमानां दूषयित्वाइति समानं पूर्वेण//

३.५.२७> ग्रामअन्तरम् उद्यानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो नायकस् तदा रक्षिणो वित्रास्य हत्वा वा कन्याम् अपहरेत्/ इति विवाहयोगाः//

३.५.२८क > पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः/

३.५.२८ख > पूर्वअभावे ततः कार्यो यो य उत्तर उत्तरः//

३.५.२९क > व्यूढानां हि विवाहानाम् अनुरागः फलं यतः/

३.५.२९ख > मध्यमो +अपि हि सद्योगो गान्धर्वस् तेन पूजितः//

३.५.३०क > सुखत्वाद् अबहुक्लेशाद् अपि चअवरणाद् इह/

३.५.३०ख > अनुरागआत्मकत्वाच् च गान्धर्वः प्रवरो मतः//