The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

कन्यासंप्रयुक्तकं

Back to Kamasutra Menu Page

बालायाम् उपक्रमाः इङ्गिताकारसूचनम् च

३.३.१> धनहीनस् तु गुणयुक्तो +अपि, मध्यस्थगुणो हीनअपदेशो वा, सधनो वा प्रातिवेश्यः, मातृपितृभ्रातृषु च परतन्त्रः, बालवृत्तिर् उचितप्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत्/

३.३.२> बाल्यात् प्रभृति चएनां स्वयम् एवअनुरञ्जयेत्/

३.३.३> तथायुक्तश् च मातुलकुलअनुवर्ती दक्षिणापथे बाल एव मात्रा च पित्रा च वियुक्तः परिभूतकल्पो धनौत्कर्षादलभ्यां मातुलदुहितरम् अन्यस्मै वा पूर्वदत्तां साधयेत्/

३.३.४> अन्याम् अपि बाह्यां स्पृहयेत्

३.३.५> बालायाम् एवं सति धर्मअधिगमे संवननं श्लाघ्यम् इति घोटकमुखः//

३.३.६> तया सह पुष्पअवचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणम् इति कुर्वीत/ परिचयस्य वयसश् चअनुरूप्यात्/

३.३.७> आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकआदिद्यूतानि मध्यमअङ्गुलिग्रहणं षट्पाषाणकआदीनि च देश्यानि तत्सात्म्यात् तदाप्तदासचेटिकाभिस् तया च सहअनुक्रीडेत/

३.३.८> क्ष्वेडितकानि सुनिमीलितकाम् आरब्धिकां लवणवीथिकाम् अनिलताडितकां गोधूमपुञ्जिकाम् अङ्गुलिताडितकां सखीभिर् अन्यानि च देश्यानि//

३.३.९> यां च विश्वास्याम् अस्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात्/ परिचयांश् च बुध्येत/

३.३.१०> धात्रेयिकां चअस्याः प्रियहिताभ्याम् अधिकम् उपगृह्णीयात्/ सा हि प्रीयमाणा विदितआकाराअप्य् अप्रत्यादिशन्ती तं तां च योजयितुं शक्नुयात्/ अनभिहिताअपि प्रत्याचार्यकम्/

३.३.११> अविदितआकाराअपि हि गुणान् एवअनुरागात् प्रकाशयेत्/ यथा प्रयोज्याअनुरज्येत/

३.३.१२> यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत्/

३.३.१३> क्रीडनकद्रव्याणि यान्य् अपूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् अस्या अयत्नेन संपादयेत्/

३.३.१४> तत्र कन्दुकम् अनेकभक्तिचित्रम् अल्पकालअन्तरितम् अन्यद् अन्यच् च संदर्शयेत्/ तथा सूत्रदारुगवलगजदन्तमयीर् दुहितृका मधुउच्छिष्टपिष्टमृण्मयीश् च/

३.३.१५> भक्तपाकअर्थम् अस्या महान् असिकस्य च दर्शनम्/

३.३.१६> काष्ठमेध्रकयोश् च संयुक्तयोश् च स्त्रीपुंसयोर् अजएडकानां देवकुलगृहकानां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्रआकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकआदीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम्/ यथा च सर्वअभिप्रायसंवर्धकम् एनं मन्येत तथा प्रयतितव्यम्/

३.३.१७> वीक्षणे च प्रच्छन्नम् अर्थयेत्/ तथा कथायोजनम्/

३.३.१८> प्रच्छन्नदानस्य तु कारणम् आत्मनो गुरुजनाद् भयं ख्यापयेत्/ देयस्य चअन्येन स्पृहणीयत्वम् इति/

३.३.१९> वर्धमानअनुरागं चआख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्तहारिणीभिश् च रञ्जयेत्/

३.३.२०> विस्मयेषु प्रसह्यमानाम् इन्द्रजालैः प्रयोगैर् विस्मापयेत्/ कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर् गीतैः/ आश्वयुज्याम् अष्टमीचन्द्रके कौमुद्याम् उत्सवेषु यात्रायां ग्रहणे गृहआचारे वा विचित्रैर् आपीडैः *कर्ण[अन्यत्र : कर्णं]पत्त्रभङ्गैः सिक्थकप्रधानैर् वस्त्रअङ्गुलीयकभूषणदानैश् च/ नो चेद् दोषकराणि मन्येत/

३.३.२१> अन्यपुरुषविशेषअभिज्ञतया धात्रेयिकाअस्याः पुरुषप्रवृत्तौ चातुःषष्टिकान् योगान् ग्राहयेत्/

३.३.२२> तद्ग्रहणौपदेशेन च प्रयोज्यायां रतिकौशलम् आत्मनः प्रकाशयेत्/

३.३.२३> उदारवेषश् च स्वयम् अनुपहतदर्शनश् स्यात्/ भावं च कुर्वतीम् इङ्गितआकारैः सूचयेत्/

३.३.२४> युवतयो हि संसृष्टम् अभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते/ कामयमाना अपि तु नअभियुञ्जत इति प्रायोवादः/ इति बालायाम् उपक्रमाः//

३.३.२५> तान् इङ्गितआकारान् वक्ष्यामः//

३.३.२६> संमुखं तं तु न वीक्षते/ वीक्षिता व्रीडां दर्शयति/ रुच्यम् आत्मनो +अङ्गम् अपदेशेन प्रकाशयति/ प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते/

३.३.२७> पृष्टा च किं चित् सस्मितम् अव्यक्तअक्षरम् अनवसिताअर्थं च मन्दं मन्दम् अधोमुखी कथयति/ तत्समीपे चिरं स्थानम् अभिनन्दति/ दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं सवदनविकारम् आभाषते/ तं देशं न मुञ्चति/

३.३.२८> यत् किं चिद् दृष्ट्वा विहसितं करोति/ तत्र कथाम् अवस्थानअर्थम् अनुबध्नाति/ बालस्यअङ्कगतस्यआलिङ्गनं चुम्बनं च करोति/ परिचारिकायास् तिलकं च रचयति/ परिजनानवष्टभ्य तास् ताश् च लीला दर्शयति/

३.३.२९> तन्मित्रेषु विश्वसिति/ वचनं चएषां बहु मन्यते करोति च/ तत्परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति/ स्वकर्मसु च प्रभविष्णुर् इवएतान् नियुञ्क्ते/ तेषु च नायकसंकथाम् अन्यस्य कथयत्स्व् अवहिता तां शृणोति/

३.३.३०> धात्रेयिकया चोदिता नायकस्यौदवसितं प्रविशति/ ताम् अन्तरा कृत्वा तेन सह द्यूतं क्रीडाम् आलापं चआयोजयितुम् इच्छति/ अनलंकृता दर्शनपथं रिहरति/ कर्णपत्त्रम् अङ्गुलीयकं स्रजं वा तेन याचिता सधीरम् एव गात्राद् अवतार्य सख्या हस्ते ददाति/ तेन च दत्तं नित्यं धारयति/ अन्यवरसंकथासु विषण्णा भवति/ तत्पक्षकैश् च सह न संसृज्यत इति// भवतश् चअत्र श्लोकौ ---

३.३.३१कख> दृष्ट्वाएतान् भावसंयुक्तान् आकारान् इङ्गितानि च/

३.३.३१गघ> कन्यायाः संप्रयोगअर्थं तांस् तान् योगान् विचिन्तयेत्//

३.३.३२कख> बालक्रीडनकैर् बाला कलाभिर् यौवने स्थिता/

३.३.३२गघ> वत्सला चअपि संग्राह्या विश्वास्यजनसंग्रहात्//