The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

कन्यासंप्रयुक्तकं

Back to Kamasutra Menu Page

कन्याविस्रम्भणम्

३.२.१> संगतयोस् त्रिरात्रम् अधः शय्या ब्रह्मचर्यं क्षारलवणवर्जम् आहारस् तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनम्/ इति सार्ववर्णिकम्//

३.२.२> तस्मिन्न् एतां निशि विजने मृदुभिर् उपचारैर् उपक्रमेत//

३.२.३> त्रिरात्रम् अवचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम्/ इति बाभ्रवीयाः//

३.२.४> उपक्रमेत विस्रम्भयेच् च, न तु ब्रह्मचर्यम् अतिवर्तेत/ इति वात्स्यायनः//

३.२.५> उपक्रममाणश् च न प्रसह्य किंचिद् आचरेत्//

३.२.६> कुसुमसधर्माणो हि योषितः सुकुमारौपक्रमाः/ तास् त्व् अनधिगतविश्वासैः प्रसभम् उपक्रम्यमाणाः संप्रयोगद्वेषिण्यो भवन्ति/ तस्मात् साम्नाएवौपचरेत्//

३.२.७> युक्त्याअपि तु यतः प्रसरम् उपलभेत् तेनएवअनु प्रविशेत्//

३.२.८> तत्प्रियेणआलिङ्गनेनआचरितेन/ नअतिकालत्वात्//

३.२.९> पूर्वकायेण चौपक्रमेत्/ विषह्यत्वात्//

३.२.१०> दीपआलोके विगाढयौवनायाः पूर्वसंस्तुतायाः/ बालाया अपूर्वायाश् चअन्धकारे//

३.२.११> अङ्गीकृतपरिष्वङ्गायाश् च वदनेन ताम्बूलदानम्/ तदप्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पादपतनैश् च ग्राहयेत्/ व्रीडायुक्ताअपि योषिदत्यन्तक्रुद्धाअपि न पादपतनम् अतिवर्तते इति सार्वत्रिकम्//

३.२.१२> तद्दानप्रसङ्गेण मृदु विशदम् अकाहलम् अस्याश् चुम्बनम्/

३.२.१३> तत्र सिद्धाम् आलापयेत्/

३.२.१४> तच्छ्रवणअर्थं यत् किं चिद् अल्पअक्षरअभिधेयम् अजानन्न् इव पृच्छेत्/

३.२.१५> तत्र निष्प्रतिपत्तिम् अनुद्वेजयन् सान्त्वना युक्तं बहुश एव पृच्छेत्/

३.२.१६> *तत्र[अन्यत्र : यत्र]अप्य् अवदन्तीं निर्बध्नीयात्//

३.२.१७> सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते/ न तु लघुमिश्राम् अपि वाचं वदन्ति/ इति घोटकमुखः//

३.२.१८> निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत्/ कलहे तु न शिरः कम्पयेत्//

३.२.१९> इच्छसि मां नैच्छसि वा किं ते +अहं रुचितो न रुचितो वाइति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदाअनुकूल्येन शिरः कम्पयेत्/ प्रपञ्च्यमाना तु विवदेत्//

३.२.२०> संस्तुता चेत् सखीम् अनुकूलाम् उभयतो +अपि विस्रब्धां ताम् अन्तरा कृत्वा कथां योजयेत्/ तस्मिन्न् अधोमुखी विहसेत्/ तां चअतिवादिनीम् अधिक्षिपेद् विवदेच् च/ सा तु परिहासअर्थम् इदम् अनयाउक्तम् इति चअनुक्तम् अपि ब्रूयात्/ तत्र ताम् अपनुद्य प्रतिवचनअर्थम् अभ्यर्थ्यमाना तूष्णीम् आसीत/ निर्बध्यमाना तु नअहम् एवं ब्रवीमिइत्य् अव्यक्तअक्षरम् अनवसितअर्थं वचनं ब्रूयात्/ नायकं च विहसन्ती कदा चित् कटाक्षैः प्रेक्षेत/ इत्य् आलापयोजनम्// ३.२.२१> एवं जातपरिचया चअनिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्/ उत्तरीये वाअस्य निबध्नीयात्/

३.२.२२> तथा युक्ताम् आच्छुरितकेन स्तनमुकुलयोर् उपरि स्पृशेत्/

३.२.२३> वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो नएवम् आचरिष्यामिइति स्थित्या परिष्वञ्जयेत्/ स्वं च हस्तम् आ नाभिदेशात् प्रसार्य निर्वर्तयेत्/ क्रमेण चएनाम् उत्सङ्गम् आरोप्यअधिकम् अधिकम् उपक्रमेत्/ अप्रतिपद्यमानां च भीषयेत्//

३.२.२४> अहं खलु तव दन्तपदान्य् अधरे करिष्यामि स्तनपृष्ठे च नखपदम्/ आत्मनश् च स्वयं कृत्वा त्वया कृतम् इति ते सखीजनस्य पुरतः कथयिष्यामि/ सा त्वं किम् अत्र वक्ष्यसिइति बालविभीषिकैर् बालप्रत्यायनैश् च शनैर् एनां प्रतारयेत्/

३.२.२५> द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत्//

३.२.२६> सर्वअङ्गिकं चुम्बनम् उपक्रमेत//

३.२.२७> ऊर्वोश् चौपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणऊरुमूलम् अपि संवाहयेत्/ निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम्/ तच् च स्थिरीकुर्यात्/ तत्र सिद्धाया गुह्यदेशअभिमर्शनं

३.२.२८> रशनावियोजनं नीवी*विस्रंसनं[अन्यत्र : विस्रसनं] वसनपरिवर्तनम् ऊरुमूलसंवाहनं च/ एते चअस्यअन्यअपदेशाः/ युक्तयन्त्रां रञ्जयेत्/ न त्व् अकाले व्रतखण्डनम्

३.२.२९> अनुशिष्याच् च/ आत्मअनुरागं दर्शयेत्/ मनोरथांश् च पूर्वकालिकान् अनुवर्णयेत्/ आयत्यां च तदाअनुकूल्येन प्रवृत्तिं प्रतिजानीयात्/ सपत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्/ कालेन च क्रमेण विमुक्तकन्याभावाम् अनुद्वेजयन्न् उपक्रमेत/ इति कन्याविस्रम्भणम्// भवन्ति चअत्र श्लोकाः ---

३.२.३०कख> एवं चित्तअनुगो बालाम् उपायेन प्रसाधयेत्/

३.२.३०गघ> तथाअस्य सानुरक्ता च सुविस्रब्धा प्रजायते//

३.२.३१कख> नअत्यन्तम् आनुलोम्येन न चअतिप्रातिलोम्यतः/

३.२.३१गघ> सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्//

३.२.३२कख> आत्मनः प्रीतिजननं योषितां मानवर्धनम्/

३.२.३२गघ> कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्//

३.२.३३कख> अतिलज्जाअन्विताइत्य् *एयं[अन्यत्र : ेवं] यस् तु कन्याम् उपेक्षते/

३.२.३३गघ> सो +अनभिप्रायवेदिइति पशुवत् परिभूयते//

३.२.३४कख> सहसा वाअप्य् उपक्रान्ता कन्याचित्तम् अविन्दता/ ३.२.३४गघ> भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति//

३.२.३५कख> सा प्रीतियोगम् अप्राप्ता तेनौद्वेगेन दूषिता/

३.२.३५गघ> पुरुषद्वेषिणी वा स्याद् विद्विष्टा वा ततो +अन्यगा//