The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

कन्यासंप्रयुक्तकं

Back to Kamasutra Menu Page

वरणसंविधानम् संबन्धनिश्चयः च

३.१.१> सवर्णायाम् अनन्यपूर्वायां शास्त्रतो +अधिगतायां धर्मो +अर्थः पुत्राः संबन्धः पक्षवृद्धिर् अनुपस्कृता रतिश् च//

३.१.२> तस्मात् कन्याम् अभिजनौपेतां मातापितृमतीं त्रिवर्षात् प्रभृति न्यूनवयसं श्लाघ्यआचारे धनवति पक्षवति कुले संबन्धिप्रिये संबन्धिभिर् आकुले प्रसूतां प्रभूतमातृपितृपक्षां रूपशीललक्षणसंपन्नाम् अन्यूनअधिकाविनष्टदन्तनखकर्णकेशअक्षिस्तनीम् अरोगिप्रकृतिशरीरां तथाविध एव श्रुतवाञ् शीलयेत्//

३.१.३> यां गृहीत्वा कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः//

३.१.४> तस्या वरणे मातापितरौ संबन्धिनश् च प्रयतेरन्/ मित्राणि च गृहीतवाक्यान्य् उभयसंबद्धानि//

३.१.५> तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्षअनागमिकांश् च श्रावयेयुः/ कौलान् पौरुषेयान् अभिप्रायसंवर्धकांश् च नायकगुणान्/ विशेषतश् च कन्यामातुर् अनुकूलांस् तदात्वआयतियुक्तान् दर्शयेयुः//

३.१.६> दैवचिन्तकरूपश् च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तम् अर्थसंयोगं कल्याणम् अनुवर्णयेत्//

३.१.७> अपरे पुनर् अस्यअन्यतो विशिष्टेन कन्यालाभेन कन्यामातरम् उन्मादयेयुः//

३.१.८> दैवनिमित्तशकुनौपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च//

३.१.९> न यदृच्छया केवलमानुषायैति घोटकमुखः//

३.१.१०> सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्/

३.१.११> अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषताम् ऋषभां विनतां विकटां विमुण्डां शुचिदूषितां सांकरिकीं राकां फलीनीं मित्रां स्वनुजाम् वर्षकरीं च वर्जयेत्//

३.१.१२क > नक्षत्रआख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम्/

३.१.१२ख > लकाररेफौपान्तां च वरणे परिवर्जयेत्//

३.१.१३> यस्यां मनश्चक्षुषोर् निबन्धस् तस्याम् ऋद्धिः/ नैतराम् आद्रियेत/ इत्य् एके//

३.१.१४> तस्मात् प्रदानसमये कन्याम् उदारवेषां स्थापयेयुः/ अपराह्णिकं च नित्यं प्रसाधितायाः सखीभिः सह क्रीडा/ यज्ञविवाहआदिषु जनसंद्रावेषु प्रायत्निकं दर्शनम्/ तथौत्सवेषु च/ पण्यसधर्मत्वात्//

३.१.१५> वरणअर्थम् उपगतांश् च भद्रदर्शनान् प्रदक्षिणवाचश् च तत्संबन्धिसंगतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः/

३.१.१६> कन्यां चएषाम् अलंकृताम् अन्यअपदेशेन दर्शयेयुः/

३.१.१७> दैवं परीक्षणं चअवधिं स्थापयेयुः/ आ प्रदाननिश्चयात्//

३.१.१८> स्नानआदिषु नियुज्यमाना वरयितारः सर्वं भविष्यतिइत्य् उक्त्वा न तदहरेवअभ्युपगच्छेयुः//

३.१.१९> देशप्रवृत्तिसात्म्याद् वा ब्राह्मप्राजापत्यआर्षदैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्/ इति वरणविधानम्// भवन्ति चअत्र श्लोकाः ---

३.१.२०कख> समस्यआद्याः सहक्रीडा विवाहाः संगतानि च/

३.१.२०गघ> समानैर् एव कार्याणि नौत्तमैर् नअपि वाअधमैः//

३.१.२१कख> कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः/

३.१.२१गघ> तं विद्याद् उच्चसंबन्धं परित्यक्तं मनस्विभिः//

३.१.२२कख> स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्कृतः/

३.१.२२गघ> अश्लाघ्यो हीनसंबन्धः सो +अपि सद्भिर् विनिन्द्यते//

३.१.२३कख> परस्परसुखआस्वादा क्रीडा यत्र प्रयुज्यते/

३.१.२३गघ> विशेषयन्ती चअन्योन्यं संबन्धः स विधीयते//

३.१.२४कख> कृत्वाअपि चौच्चसंबन्धं पश्चाज् ज्ञातिषु संनमेत्/

३.१.२४गघ> न त्व् एव हीनसंबन्धं कुर्यात् सद्भिर् विनिन्दितम्//