The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

औपरिष्टकं नवमो

२.९.१> द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च//

२.९.२> तत्र स्त्रीरूपिणी स्त्रीया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् असहिष्णुतां व्रीडां चअनुकुर्वीत//

२.९.३> तस्या वदने जघनकर्म/ तदौपरिष्टकम् आचक्षते//

२.९.४> सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत्/

२.९.५> वेश्यावच् चरितं प्रकाशयेत्/ इति स्त्रीरूपिणी//

२.९.६> पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभावम् उपजीवेत्/

२.९.७> संवाहने परिष्वजमानाइव गात्रैर् ऊरूनायकस्य मृद्गीयात्/

२.९.८> प्रसृतपरिचया चऊरुमूलं सजघनम् इति संस्पृशेत्/

२.९.९> तत्र स्थिरलिङ्गताम् उपलभ्य चअस्य पाणिमन्थेन परिघट्टयेत्/ चअपलम् अस्य कुत्सयन्तीइव हसेत्/

२.९.१०> कृतलक्षणेनअप्य् उपलब्धवैकृतेनअपि न चोद्यत इति चेत् स्वयम् उपक्रमेत्/

२.९.११> पुरुषेण च चोद्यमाना विवदेत्/ कृच्छ्रेण चअभ्युपगच्छेत्//

२.९.१२> तत्र कर्मअष्टविधं समुच्चयप्रयोज्यम्/

२.९.१३> निमितं पार्श्वतो दष्टं बहिःसंदंशो +अन्तःसंदंशश् चुम्बितकं परिमृष्टकम् आम्रचूषितकं संगर इति//

२.९.१४> तेष्व् एकैकम् अभ्युपगम्य विरामअभीप्सां दर्शयेत्//

२.९.१५> इतरश् च पूर्वस्मिन्न् अभ्युपगते तदुत्तरम् एवअपरं निर्दिशेत्/ तस्मिन्न् अपि सिद्धे तदुत्तरम् इति//

२.९.१६> करअवलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य मुखं विधुनुयात्/ तन्निमितम्//

२.९.१७> हस्तेणअग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्टाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत्/ तत्पार्श्वतो दष्टम्//

२.९.१८> भूयश् चोदिता संमीलितओष्ठी तस्यअग्रं निष्पीड्य कर्षयन्तीइव चुम्बेत्/ इति बहिःसंदंशः//

२.९.१९> तस्मिन्न् एवअभ्यर्थनया किं चिद् अधिकं प्रवेशयेत्/ साअपि चअग्रम् ओष्ठाभ्यां निष्पीड्य निष्ठीवेत्/ इत्य् अन्तःसंदंशः//

२.९.२०> करअवलम्बितस्यओष्ठवद् ग्रहणं चुम्बितकम्//

२.९.२१> तत् कृत्वा जिह्वाअग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति परिमृष्टकम्//

२.९.२२> तथाभूतम् एव रागवशाद् अर्धप्रविष्टं निर्दयम् अवपीड्याव् अपीड्य मुञ्चेत्/ इति आम्रचूषितकम्//

२.९.२३> पुरुषअभिप्रायाद् एव गिरेत् पीडयेच् चअपरिसमाप्तेः/ इति संगरः//

२.९.२४> यथाअर्थं चअत्र स्तननप्रहणनयोः प्रयोगः/ इत्य् औपरिष्टकम्//

२.९.२५> कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश् चअप्य् एतत् प्रयोजयन्ति//

२.९.२६> तद् एतत् तु न कार्यम्/ समयविरोधाद् असभ्यत्वाच् च/ पुनर् अपि ह्य् आसां वदनसंसर्गे स्वयम् एवआर्तिं प्रपद्येत/ इत्य् आचार्याः//

२.९.२७> वेश्याकामिनो +अयम् अदोषः/ अन्यतो +अपि परिहार्यः स्यात्/ इति वात्स्यायनः//

२.९.२८> तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः//

२.९.२९> वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति//

२.९.३०> निरपेक्षाः साकेताः संसृज्यन्ते//

२.९.३१> न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः//

२.९.३२> सर्वम् अविशङ्कया प्रयोजयन्ति सौरसेनाः//

२.९.३३> एवं ह्य् आहुः --- को हि योषितां शीलं शौचम् आचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुम् अर्हति/ निसर्गाद् एव हि मलिनदृष्टयो भवन्त्य् एता न परित्याज्याः/ तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम्/ एवं ह्य् आहुः --- वत्सः प्रस्रवणे मेध्यः श्वा मृगग्रहणे शुचिः/ शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे//

२.९.३४> शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद् देशस्थितेर् आत्मनश् च वृत्तिप्रत्ययअनुरूपं प्रवर्तेत/ इति वात्स्यायनः// भवन्ति चअत्र श्लोकाः ---

२.९.३५कख> प्रमृष्टकुण्डलाश् चअपि युवानः परिचारकाः/

२.९.३५गघ> केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम्//

२.९.३६कख> तथा नागरकाः के चिद् अन्योन्यस्य हितएषिणः/

२.९.३६गघ> कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम्//

२.९.३७कख> पुरुषाश् च तथा स्त्रीषु कर्मएतत् किल कुर्वते/

२.९.३७गघ> व्यासस् तस्य च विज्ञेयो मुखचुम्बनवद् विधिः//

२.९.३८कख> परिवर्तितदेहौ तु स्त्रीपुंसौ यत् परस्परम्/

२.९.३८गघ> युगपत्संप्रयुज्येते स कामः काकिलः स्मृतः//

२.९.३९कख> तस्माद् गुणवतस् त्यक्त्वा चतुरांस् त्यागिनो नरान्/

२.९.३९गघ> वेश्याः खलेषु रज्यन्ते दासहस्तिपकआदिषु//

२.९.४०कख> न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राजधूर्धरः//

२.९.४०गघ> गृहीतप्रत्ययो वाअपि कारयेद् औपरिष्टकम्//

२.९.४१कख> न शास्त्रम् अस्तिइत्य् एतावत् प्रयोगे कारणं भवेत्/

२.९.४१गघ> शास्त्रअर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एकदेशिकान्//

२.९.४२कख> रसवीर्यविपाका हि श्वमांसस्यअपि वैद्यके/

२.९.४२गघ> कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः//

२.९.४३कख> सन्त्य् एव पुरुषाः के चित् सन्ति देशास् तथाविधाः/

२.९.४३गघ> सन्ति कालाश् च येष्व् एते योगा न स्युर् निरर्थकाः//

२.९.४४कख> तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च/

२.९.४४गघ> आत्मानं चअपि संप्रेक्ष्य योगान् युञ्जीत वा न वा//

२.९.४५कख> अर्थस्यअस्य रहस्यत्वाच् चलत्वान् मनसस् तथा/

२.९.४५गघ> कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति//