The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

प्रहणनप्रयोगास् तद्युक्ताश् च सीत्कृतक्रमाः

२.७.१> कलहरूपं सुरतम् आचक्षते/ विवादआत्मकत्वाद् वामशीलत्वाच् च कामस्य//

२.७.२> तस्मात् प्रहणनस्थानम् अङ्गम्/ स्कन्धौ शिरः स्तनअन्तरं पृष्ठं जघनं पार्श्व इति स्थानानि//

२.७.३> तच् चतुर्विधम् --- अपहस्तकं प्रसृतकं मुष्टिः समतलकम् इति//

२.७.४> तद् उद्भवं च सीत्कृतम्/ तस्य*अतिरूपत्वात्[अन्यत्र : ार्तिरूपत्वात्]/ तद् अनेकविधम्//

२.७.५> विरुतानि चअष्टौ//

२.७.६> हिंकारस्तनितकूजितरुदितसूत्कृतदूत्कृतफूत्कृतानि//

२.७.७> अम्वार्थाः शब्दा वारणअर्था मोक्षणअर्थाश् चालम् अर्थास् ते ते चअर्थयोगात्//

२.७.८> पारावतपरभृतहारीतशुकमधुकरदात् यूहहंसकारण्डवलावकविरुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत//

२.७.९> उत्सङ्गौपविष्टायाः पृष्ठे मुष्टिना प्रहारः//

२.७.१०> तत्र सासूयाया इव स्तनितरुदितकूजितानि प्रतीघातश् च स्यात्//

२.७.११> युक्तयन्त्रायाः स्तनअन्तरे +अपहस्तकेन प्रहरेत्//

२.७.१२> मन्दौपक्रमं वर्धमानरागमा *परिसमाप्तेः[अन्यत्र : परिसमाप्तः]//

२.७.१३> तत्र हिंकारआदीनाम् अनियमेनअभ्यासेन विकल्पेन च तत्कालम् एव प्रयोगः//

२.७.१४> शिरसि किं चिद् आकुञ्चितअङ्गुलिना करेण विवदन्त्याः फूत्कृत्य प्रहणनं तत्प्रसृतकम्//

२.७.१५> तत्रअन्तर्मुखेन कूजितं फूत्कृतं च//

२.७.१६> रतअन्ते च श्वसितरुदिते/

२.७.१७> वेणोर् इव स्फुटतः शब्दअनुकरणं दूत्कृतम्//

२.७.१८> अप्सु बदरस्यैव निपततः (शब्दअनुकरणं) फूत्कृतम्//

२.७.१९> सर्वत्र चुम्बनआदिष्व् अपक्रान्तायाः ससीत्कृतं तेनएव प्रत्युत्तरम्//

२.७.२०> रागवशात् प्रहणनअभ्यासे वारणमोक्षणालम् अर्थानां शब्दानाम् अम्बअर्थानां च सतान्तश्वसितरुदितस्तनितमिश्रीकृतप्रयोगा विरुतानां च/ रागअवसानकाले जघनपार्श्वयोस् ताडनम् इत्य् अतित्वरया चअपरिसमाप्तेः//

२.७.२१> तत्र लावकहंसविकूजितं त्वरयाएव/इति स्तननप्रहणनयोगाः//

२.७.२२क > पारुष्यं रभसत्वं च पौरुषं तेज उच्यते/

२.७.२२ख > अशक्तिर् आर्तिर्व्यावृत्तिर् अबलत्वं च योषितः//

२.७.२३क > रागात् प्रयोगसात्म्याच् च व्यत्ययो +अपि क्व चिद् भवेत्/

२.७.२३ख > न चिरं तस्य चएवअन्ते प्रकृतेर् एव योजनम्//

२.७.२४> कीलाम् उरसि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश् चैति पूर्वैः सह प्रहणनम् अष्टविधम् इति दाक्षिणात्यानाम्/ तद्युवतीनाम् उरसि कीलानि च तत्कृतानि दृष्यन्ते/ देशसात्म्यम् एतत्//

२.७.२५> कष्टम् अनार्यवृत्तम् अनादृतम् इति वात्स्यायनः//

२.७.२६> तथाअन्यद् अपि देशसात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत्//छेच्केद्

२.७.२७> आत्ययिकं तु तत्रअपि परिहरेत्//

२.७.२८> रतियोगे हि कीलया गणिकां चित्रसेणां चोलराजो जघान/

२.७.२९> कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम्//

२.७.३०> नरदेवः कुपाणिर् विद्धया दुष्प्रयुक्तया नटीं काणां चकार// भवन्ति चअत्र श्लोकाः ---

२.७.३१कख> नास्त्य् अत्र गणना का चिन् न च शास्त्रपरिग्रहः/

२.७.३१गघ> प्रवृत्ते रतिसंयोगे राग एवअत्र कारणम्//

२.७.३२कख> स्वप्नेष्व् अपि न दृश्यन्ते ते भावास् ते च विभ्रमाः/

२.७.३२गघ> सुरतव्यवहारेषु ये स्युस् तत्क्षणकल्पिताः//

२.७.३३कख> यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि/

२.७.३३गघ> स्थाणुम् श्वभ्रं दरीं वाअपि वेगअन्धो न समीक्षते//

२.७.३३ग> एवं सुरतसंमर्दे रागअन्धौ कामिनाव् अपि/ २.७.३३घ> चण्डवेगौ प्रवर्तेते समीक्षेते न चअत्ययम्//

२.७.३४कख> तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च/

२.७.३४गघ> आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्//

२.७.३५कख> न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः/

२.७.३५गघ> स्थाने देशे च काले च योग एषां विधीयते//