The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

संवेशनप्रकाराश्चित्ररतानि

२.६.१> रागकाले विशालयन्त्य् एव जघनं मृगी संविशेद् उच्चरते//

२.६.२> अवह्रासयन्तीइव हस्तिनी नीचरते//

२.६.३> न्याय्यो यत्र योगस् तत्र समपृष्ठम्//

२.६.४> आभ्यां वडवा व्याख्याता//

२.६.५> तत्र जघनेन नायकं प्रतिगृह्णीयात्//

२.६.६> अपद्रव्याणि च सविशेषं नीचरते//

२.६.७> उत्फुल्लकं विजृम्भितकम् इन्द्राणिकं चैति त्रितयं मृग्याः प्रायेण//

२.६.८> शिरो विनिपात्यऊर्ध्वं जघनम् उत्फुल्लकम्//

२.६.९> तत्रअपसारं दद्यात्//

२.६.१०> अनीचे सक्थिनी तिर्यग् अवसज्य प्रतीच्छेद् इति विजृम्भितकम्//

२.६.११> पार्श्वयोः समम् ऊरू विन्यस्य पार्श्वयोर् जानुनी निदध्याद् इत्य् अभ्यासयोगाद् इन्द्राणी//

२.६.१२> तयाउच्चतररतस्यअपि परिग्रहः//

२.६.१३> संपुटेन प्रतिग्रहो नीचरते//

२.६.१४> एतेन नीचतररते +अपि हस्तिन्याः//

२.६.१५> संपुटकं पीडितकं वेष्टितकं वाडवकम् इति//

२.६.१६> ऋजुप्रसारिताव् उभाव् अप्य् उभयोश् चरणाव् इति संपुटः//

२.६.१७> स द्विविधः --- पार्श्वसंपुट उत्तानसंपुटश् च/ तथा कर्मयोगात्/

२.६.१८> पार्श्वेण तु शयानो दक्षिणेन नारीम् अधिशयीतेति सार्वत्रिकम् एतत्//

२.६.१९> संपुटकप्रयुक्तयन्त्रेणएव दृढम् ऊरू पीडयेद् इति पीडितकम्//

२.६.२०> ऊरू व्यत्यस्येद् इति वेष्टितकम्//

२.६.२१> वडवाइव निष्ठुरम् अवगृह्णीयाद् इति वाडवकम् आभ्यासिकम्//

२.६.२२> तदाअन्ध्रीषु प्रायेण/ इति संवेशनप्रकारा बाभ्रवीयाः//

२.६.२३> सौवर्णनाभास् तु/

२.६.२४> उभाव् अप्य् ऊरू ऊर्ध्वाव् इति तद्भुग्नकम्//

२.६.२५> चरणाव् ऊर्ध्वं नायको +अस्या धारयेद् इति जृम्भितकम्//

२.६.२६> तत्कुञ्चिताव् उत्पीडितकम्//

२.६.२७> तद् एकस्मिन् प्रसारिते +अर्धपीडितकम्//

२.६.२८> नायकस्यअंस एको द्वितीयकः प्रसारित इति पुनः पुनर् व्यत्यासेन वेणुदारितकम्//

२.६.२९> एकः शिरस उपरि गच्छेद् द्वितीयः प्रसारित इति शूलचितकम् आभ्यासिकम्//

२.६.३०> संकुचितौ *स्वबस्तिदेशे[अन्यत्र : स्वस्तिदेशे] निदध्याद् इति कार्कटकम्//

२.६.३१> ऊर्ध्वाव् ऊरू व्यत्यस्येद् इति पीडितकम्//

२.६.३२> जङ्घाव्यत्यासेन पद्मआसनवत्//

२.६.३३> पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकम् आभ्यासिकम्//

२.६.३४> जले च संविष्टौपविष्टस्थितआत्मकांश् चित्रान् योगान् उपलक्षयेत्/ तथा सुकरत्वाद् इति सुवर्णनाभः//

२.६.३५> वार्तं तु तत्/ शिष्टैर् अपस्मृतत्वाद् इति वात्स्यायनः//

२.६.३६> अथ चित्ररतानि//

२.६.३७> ऊर्ध्वस्थितयोर् यूनोः परस्परअपाश्रययोः कुड्यस्तम्भअपाश्रितयोर् वा स्थितरतम्/

२.६.३८> कुड्यअपाश्रितस्य कण्ठअवसक्तबाहुपाशायास् तद्धस्तपञ्जरौपविष्टाया ऊरुपाशेन जघनम् अभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या अवलम्बितकं रतम्//

२.६.३९> भूमौ वा चतुष्पदवद् आस्थिताया वृषलीलयाअवस्कन्दनं धेनुकम्//

२.६.४०> तत्र पृष्ठम् उरःकर्माणि लभते//

२.६.४१> एतेनएव योगेन शौनमैणेयं छागलं गर्दभआक्रान्तं मार्जारललितकं व्याघ्रअवस्कन्दनं गजौपमर्दितं वराहघृष्टकं तुरगअधिरूढकम् इति यत्र यत्र विशेषो योगो +अपूर्वस् तत् तद् उपलक्षयेत्//

२.६.४२> मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम्//

२.६.४३> बह्वीभिश् च सह गोयूथिकम्//

२.६.४४> वारिक्रीडितकं छागलमैणेयम् इति तत्कर्मअनुकृतियोगात्//

२.६.४५> ग्रामनारिविषये स्त्रीराज्ये च बाह्लीके बहवो युवानो +अन्तःपुरसधर्माण एकैकस्याः परिग्रहभूताः/

२.६.४६> तेषाम् एकैकशो युगपच् च यथासात्म्यं यथायोगं च रञ्जयेयुः//

२.६.४७> एको धारयेद् एनाम् अन्यो निषेवेत/ अन्यो *जघनमुखम्[अन्यत्र : जघनं मुखम्] अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण चअनुतिष्ठेयुः//

२.६.४८> एतया गोष्ठीपरिग्रहा वेश्या राजयोषा*परिग्रहश्[अन्यत्र : परिग्रहाश्] च व्याख्यातः//

२.६.४९> अघोरतं पायाव् अपि दाक्षिणात्यानाम्/ इति चित्ररतानि//

२.६.५०> पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः// भवतश् चअत्र श्लोकौ --- २.६.५१कख> पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः/

२.६.५१गघ> तैस् तैस् उपायैश् चित्तज्ञो रतियोगान् विवर्धयेत्//

२.६.५२कख> तत्सात्म्याद् देशसात्म्याच् च तैस् तैर् भावैः प्रयोजितैः/

२.६.५२गघ> स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते//