The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

दशनच्छेद्यविहयो

२.५.१.> उत्तरौष्ठम् अन्तर्मुखं नयनम् इति मुक्त्वा चुम्बनवद् दशनरदनस्थानानि//

२.५.२> समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास् तीक्ष्णअग्रा इति दशनगुणाः//

२.५.३> कुण्ठा राज्युद्गताः परूषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः//

२.५.४> गूढकम् उच्छूनकं बिन्दुर् बिन्दुमाला *प्रवास[अन्यत्र : प्रवाल]मणिर् मणिमाला खण्डअभ्रकं वराहचर्वितकम् इति दशनच्छेदनविकल्पाः//

२.५.५> नअतिलोहितेन रागमात्रेण विभावनीयं गूढकम्//

२.५.६> तद् एव पीडनाद् उच्छूनकम्//

२.५.७> तद् उभयं बिन्दुर् अधरमध्य इति//

२.५.८> उच्छूनकं प्रवालमणिश् च कपोले//

२.५.९> कर्णपूरचुम्बनं नखदशनच्छेद्यम् इति सव्यकपोलमण्डनानि//

२.५.१०> दन्तओष्ठसंयोगअभ्यासनिष्पादनात् प्रवालमणिसिद्धिः//

२.५.११> सर्वस्यैयं मणिमालायाश् च//

२.५.१२> अल्पदेशायाश् च त्वचो दशनद्वयसंदंशजा बिन्दुसिद्धिः//

२.५.१३> सर्वैर् बिन्दुमालायाश् च//

२.५.१४> तस्मान् मालाद्वयम् अपि गलकक्षवङ्क्षणप्रदेशेषु//

२.५.१५> ललाटे चऊर्वोर् बिन्दुमाल//

२.५.१६> मण्डलम् इव विषमकूटकयुक्तं खण्डअभ्रकं स्तनपृष्ठ एव//

२.५.१७> संहताः प्रदीर्घा बह्व्यो दशनपदराजयस् ताम्रअन्तराला वराहचर्वितकम्/ स्तनपृष्ठ एव//

२.५.१८> तदुभयम् अपि च चण्डवेगयोः/ इति दशनच्छेद्यानि//

२.५.१९> विशेषके कर्णपूरे पुष्पआपीडे ताम्बूलपलाशे तमालपत्त्रे चैति प्रयोज्यआगामिषु नखदशनच्छेद्यआदीन्य् आभियोगिकानि//

२.५.२०> देशसात्म्याच् च योषित उपचरेत्//

२.५.२१> मध्यदेश्या आर्यप्रायाः शुच्युपचराश् चुम्बननखदन्तपदद्वेषिण्यः//

२.५.२२> बाह्लीकदेश्या आवन्तिकाश् च//

२.५.२३> चित्ररतेषु त्व् आसाम् अभिनिवेशः//

२.५.२४> परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहणनसाध्या मालव्य आभीर्यश् च//

२.५.२५> सिन्धुषष्ठानां च नदीनाम् अन्तरालीया औपरिष्टकसात्म्याः//

२.५.२६> चण्डवेगा मन्दसीत्कृता आपरान्तिका लाठ्यश् च//

२.५.२७> दृढप्रहणनयोगिन्यः खरवेगा एव, अपद्रव्यप्रधानाः स्त्रीराज्ये कोशलायां च//

२.५.२८> प्रकृत्या मृद्व्यो रतिप्रिया अशुचिरुचयो निराचाराश् चआन्ध्र्यः//

२.५.२९> सकलचतुःषष्टिप्रयोगरागिण्यो +अश्लीलपरुषवाक्यप्रियाः शयने च सरभसौपक्रमा महाराष्ट्रिकाः//

२.५.३०> तथाविधा एव रहसि प्रकाशन्ते नागरिकाः//

२.५.३१> मृद्यमानाश् चअभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः//

२.५.३२> मध्यमवेगाः सर्वंसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्यः कुत्सितअश्लीलपरुषपरिहारिण्यो वानवासिकाः//

२.५.३३> मृदुभाषिण्यो +अनुरागवत्यो मृद्व्यङ्ग्यश् च गौड्यः//

२.५.३४> देशसात्म्यात् प्रकृतिसात्म्यं बलीय इति सुवर्णनाभः/ न तत्र देश्या उपचाराः//

२.५.३५> कालयोगाच् च देशाद् देशअन्तरम् उपचारवेषलीलाश् च*अनुगच्छन्ति[अन्यत्र : नुच्छन्ति]/ तच् च विद्यात्//

२.५.३६> उपगूहनआदिषु च रागवर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च//

२.५.३७क > वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम्/

२.५.३७ख > अमृष्यमाणा द्विगुणं तद् एव प्रतियोजयेत्//

२.५.३८क > बिन्दोः प्रतिक्रिया माला मालायाश् चअभ्रखण्डकम्/

२.५.३८ख > इति क्रोधआदिवाविष्टा कलहान् प्रतियोजयेत्//

२.५.३९क > सकचग्रहम् उन्नम्य मुखं तस्य ततः पिबेत्/

२.५.३९ख > निलीयेत दशेच् चएव तत्र तत्र मदेरिता//

२.५.४०क > उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम्/

२.५.४०ख > मणिमालां प्रयुञ्जीत यच् चअन्यद् अपि लक्षितम्//

२.५.४१क > दिवाअपि जनसंबाधे नायकेन प्रदर्शितम्/

२.५.४१ख > उद्दिश्य स्वकृतं चिह्नं हसेद् अन्यैर् अलक्षिता//

२.५.४२क > विकूणयन्तिइव मुखं कुत्सयन्तिइव नायकम्/

२.५.४२ख > स्वगात्रस्थानि चिह्नानि सासूयैव प्रदर्शयेत्//

२.५.४३क > परस्परअनुकूल्येन तद् एवं लज्जमानयोः/

२.५.४३ख > संवत्सरशतेनअपि प्रीतिर् न परिहीयते//