The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

चुम्बनविकल्पास्

२.३.१> चुम्बननखदशनच्छेद्यानां न पौर्वअपर्यम् अस्ति/ रागयोगात्/ प्राक्संयोगाद् एषां प्राधान्येन प्रयोगः/ प्रहणनसीत्कृतयोश् च संप्रयोगे//

२.३.२> सर्वं सर्वत्र/ रागस्यान् अपेक्षितत्वात्/ इति वात्स्यायनः//

२.३.३> तानि प्रथमरते नअतिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत/ तथाभूतत्वाद् रागस्य/ ततः परम् अतित्वरया विशेषवत्सम् उच्चयेन रागसंधुक्षणअर्थम्//

२.३.४> ललाटअलककपोलनयनवक्षःस्तनओष्ठअन्तर्मुखेषु चुम्बनम्/

२.३.५> ऊरुसंधिबाहुनाभिमूलयोर् लाटानाम्/

२.३.६> रागवशाद् देशप्रवृत्तेश् च सन्ति तानि तानि स्थानानि, न तु सर्वजनप्रयोज्यानिइति वात्स्यायनः//

२.३.७> तद् यथा --- निमितकं स्फुरितकं घट्टितकम् इति त्रीणि कन्याचुम्बनानि//

२.३.८> बलात् कारेण नियुक्ता मुखे मुखम् आधत्ते न तु विचेष्टत इति निमितकम्//

२.३.९> वदने प्रवेशितं चओष्ठं मनागपत्रपावग्रहीतुम् इच्छन्ती *स्यन्दयति[अन्यत्र : स्पन्दयति] स्वम् ओष्ठं नौत्तरम् उत्सहत इति स्फुरितकम्//

२.३.१०> ईषत्परिगृह्य विनिमीलितनयना करेण च तस्य नयने अवच्छादयन्ती जिह्वाअग्रेण घट्टयति इति घट्टितकम्//

२.३.११> समं तिर्यग् उद्भ्रान्तम् अवपीडितकम् इति चतुर्विधम् अपरे//

२.३.१२> अङ्गुलिसंपुटेन पिण्डीकृत्य निर्दशनम् ओष्ठपुटेनअवपीडयेद् इत्य् अवपीडितकं पञ्चमम् अपि करणम्//

२.३.१३> द्यूतं चअत्र प्रवर्तयेत्//

२.३.१४> पूर्वम् अधरसंपादनेन जितम् इदं स्यात्//

२.३.१५> तत्र जिता सअर्धरुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् आहृता विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात्/ तत्रअपि जिता द्विगुणम् आयस्येत्//

२.३.१६> विश्रब्धस्य प्रमत्तस्य वाअधरम् अवगृह्य दशनअन्तर्गतम् अनिर्गमं कृत्वा हसेद् उत्क्रोशेत् तर्जयेद् वल्गेद् *आह्वयेन्[अन्यत्र : ाह्लयेन्] नृत्येत् प्रनर्तितभ्रुणा च विचलनयनेन मुखेन विहसन्ती तानि तानि च ब्रूयात्/ इति चुम्बनद्यूतकलहः//

२.३.१७> एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः//

२.३.१८> चण्डवेगयोर् एव त्व् एषां प्रयोगः/ तत्सात्म्यात्//

२.३.१९> तस्यां चुबन्त्य् आमयम् अप्य् उत्तरं गृह्णीयात्/ इत्य् उत्तरचुम्बितम्//

२.३.२०> ओष्ठसंदंशेनअवगृह्यओष्ठद्वयम् अपि चुम्बेत/ इति संपुटकं स्त्रियाः, पुंसो वा +अजातव्यञ् जनस्य//

२.३.२१> तस्मिन्न् इतरो +अपि जिह्वयाआस्या दशनान् घट्टयेत् तालु जिह्वां चैति जिह्वायुद्धम्//

२.३.२२> एतेन बलाद् वदनरदनग्रहणं दानं च व्याख्यातम्//

२.३.२३> समं पीडितम् अञ्चितं मृदु शेषअङ्गेषु चुम्बनं स्थानविशेषयोगात्/ इति चुम्बनविशेषाः//

२.३.२४> सुप्तस्य मुखम् *अवलोकयन्त्याः[अन्यत्र : वलोकयन्त्या] स्वअभिप्रायेण चुम्बनं रागदीपनम्//

२.३.२५> प्रमत्तस्य विवदमानस्य वा +अन्यतो +अभिमुखस्य सुप्तअभिमुखस्य वा निद्राव्याघातअर्थं चलितकम्//

२.३.२६> चिररात्राव् आगतस्य शयनसुप्तायाः स्वअभिप्रायचुम्बनं प्रातिबोधिकम्//

२.३.२७> सापि तु भावजिज्ञासअर्थिनी नायकस्यअगमनकालं संलक्ष्य व्याजेन सुप्ता स्यात्//

२.३.२८> आदर्शे कुड्ये सलिले वा प्रयोज्यायाश् छायाचुम्बनम् आकारप्रदर्शनअर्थम् एव कार्यम्//

२.३.२९> बालस्य चित्रकर्मणः प्रतिमायाश् च चुम्बनं संक्रान्तकम् आलिङ्गनं च//

२.३.३०> तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्तअङ्गुलिचुम्बनं संविष्टस्य वा पादअङ्गुलिचुम्बनम्//

२.३.३१> संवाहिकायास् तु नायकम् आकारयन्त्या निद्रावशाद् अकामाया इव तस्यऊर्वोर् वदनस्य निधानम् ऊरुचुम्बनं पादअङ्गुष्ठ*चुम्बनं[अन्यत्र : ोमित्स्] चैत्य् आभियोगिकानि// भवति चअत्र श्लोकः ---

२.३.३२कख> कृते प्रतिकृतं कुर्यात् ताडिते प्रतिताडितम्//

२.३.३२गघ> करणेन च तेनएव चुम्बिते प्रतिचुम्बितम्//