The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

आलिङ्गनविचारा

२.२.१> संप्रयोगअङ्गं चतुःषष्टिर् इत्य् आचक्षते/ चतुःषष्टिप्रकरणत्वात्//

२.२.२> शास्त्रम् एवैदं चतुःषष्टिर् इत्य् आचार्यवादः//

२.२.३> कलानां चतुःषष्टित्वात् तासां च संप्रयोगअङ्गभूतत्वात् कलासमूहो वा चतुःषष्टिर् इति/ ऋचां दशतयीनां च संज्ञितत्वात्/ इहअपि तदर्थसंबन्धात्/ पञ्चालसंबन्धाच् च बह्वृचैर् एषा पूजाअर्थं संज्ञा प्रवर्तिता इत्य् एके//

२.२.४> आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्कृतपुरु षआयितऔपरिष्टकानाम् अष्टानाम् अष्टधा विकल्पभेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः//

२.२.५> विकल्पवर्गाणाम् अष्टानां न्यूनअधिकत्वदर्शनात् प्रहणनविरुतपुरुषोपसृप्तचित्ररतआदीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायोवादो +अयम्/ यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिर् इति वात्स्यायनः//

२.२.६> तत्रअसमागतयोः प्रीतिलिङ्गद्योतनअर्थम् आलिङ्गनचतुष्टयम् ---स्पृष्टकम्, विद्धकम्, उद्धृष्टकम्, पीडितकम्, इति//

२.२.७> सर्वत्र संज्ञाअर्थेनएव कर्मअतिदेशः//

२.२.८> संमुखआगतायां प्रयोज्यायाम् अन्यअपदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्टकम्//

२.२.९> प्रयोज्यं स्थितम् उपविष्टं वा विजने किंचिद् गृह्णती पयोधरेण *विध्येत्[अन्यत्र : विद्ध्येत्]/ नायको +अपि ताम् अवपीड्य गृह्णीयाद् इति विद्धकम्//

२.२.१०> तदुभयम् अनतिप्रवृत्तसंभाषणयोः//

२.२.११> तमसि जनसंबाधे विजने वाअथ शनकैर् गच्छतोर् नअतिह्रस्वकालम् उद्धर्षणं परस्परस्य गात्राणाम् उद्धृष्टकम्//

२.२.१२> तद् एव कुड्यसंदंशेन स्तम्भसंदंशेन वा स्फुटकम् अवपीडयेद् इति पीडितकम्//

२.२.१३> तद् उभयम् अवगतपरस्परआकारयोः//

२.२.१४> लतावेष्टितकं वृक्षअधिरूढकं तिलतण्डुलकं क्षीरनीरकम् इति चत्वारि संप्रयोगकाले//

२.२.१५> लताइव शालम् आवेष्टयन्ती चुम्बनअर्थं मुखम् अवनमयेत्/ उद्धृत्य मन्दसीत्कृता तम् आश्रिता वा किंचिद् रामणीयकं पश्येत् तल्लताआवेष्टितकम्//

२.२.१६> चरणेन चरणम् आक्रम्य द्वितीयेनऊरुदेशम् आक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तएकबाहुर् द्वितीयेनअंसम् अवनमयन्ती ईषन्मन्दसीत्कृतकूजिता चुम्बनअर्थम् एवअधिरोढुम् इच्छेद् इति वृक्षअधिरूढकम्//

२.२.१७> तद् उभयं स्थितकर्म//

२.२.१८> शयनगताव् एवऊरूव्यत्यासं भुजव्यत्यासं च ससंघर्षम् इव घनं संस्वजेते तत्तिलतण्डुलकम्//

२.२.१९> रागअन्धाव् अनपेक्षितअत्ययौ परस्परम् अनुविशत इवौत्सङ्गगतायाम् अभिमुखौपविष्टायां शयने वाइति क्षीरजलकम्//

२.२.२०> तदुभयं रागकाले//

२.२.२१> इत्य् उपसूहनयोगा बाभ्रवीयाः//

२.२.२२> सुवर्णनाभस्य त्व् अधिकम् एकअङ्गौपगूहनचतुष्टयम्//

२.२.२३> तत्रऊरुसंदंशेनएकम् ऊरुम् ऊरुद्वयं वा सर्वप्राणं पीडयेत् इत्य् ऊरुउपगूहनम्//

२.२.२४> जघनेन जघनम् अवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बनप्रयोजनाय तदुपरि लङ्घयेत् तज्जघनौपगूहनम्//

२.२.२५> स्तनाभ्याम् उरः प्रविश्य तत्रएव भारम् आरोपयेद् इति स्तनआलिङ्गनम्//

२.२.२६> मुखे मुखम् आसज्यअक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् सा ललाटिका//

२.२.२७> संवाहनम् अप्य् उपगूहनप्रकारम् इत्य् एके मन्यन्ते/ संस्पर्शत्वात्//

२.२.२८> पृथक् कालत्वाद् भिन्नप्रयोजनत्वाद् असाधारणत्वान् नैति वात्स्यायनः//

२.२.२९क > पृच्छतां शृण्वतां वाअपि तथा कथयताम् अपि/

२.२.२९ख > उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम्//

२.२.३०क > ये +अपि ह्य् अशास्त्रिताः के चित् संयोगा रागवर्धनाः/

२.२.३०ख > आदरेणएव ते +अप्य् अत्र प्रयोज्याः सांप्रयोगिकाः//

२.२.३१क > शास्त्राणां विषयस् तावद् यावन् मन्दरसा नराः/

२.२.३१ख > रतिचक्रे प्रवृत्ते तु नएव शास्त्रं न च क्रमः//