The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

Back to Kamasutra Menu Page

प्रमाणकालभावेभ्यो रतअवस्थापनम्

२.१.१> शशो वृषो +अश्व इति लिङ्गतो नायकविशेषाः/ नायिका पुनर्मृगी वडवा हस्तिनी चैति//

२.१.२> तत्र सदृशसंप्रयोगे समरतानि त्रीणि//

२.१.३> विपर्ययेण विषमाणि षट्/ विषमेष्व् अपि पुरुषआधिक्यं चेद् अनन्तरसंप्रयोगे द्वे उच्चरते/ व्यवहितम् एकम् उच्चतररतम्/ विपर्यये पुनर् द्वे नीचरते/ व्यवहितम् एकं नीचतररतं च/ तेषु समानि श्रेष्ठानि/ तरशब्दअङ्किते द्वे कनिष्ठे/ शेषाणि मध्यमानि//

२.१.४> साम्ये +अप्य् उच्चअङ्कं नीचअङ्काज् ज्यायः/ इति प्रमाणतो नवरतानि//

२.१.५> यस्य संप्रयोगकाले प्रीतिर् उदासीना वीर्यम् अल्पं क्षतानि च न सहते स मन्दवेगः//

२.१.६> तद् विपर्ययौ मध्यमचण्डवेगौ भवतस् तथा नायिकाअपि//

२.१.७> तत्रअपि प्रमाणवद् एव नवरतानि//

२.१.८> तद्वत् कालतो +अपि शीघ्रमध्यचिरकाला नायकाः//

२.१.९> तत्र स्त्रियां विवादः//

२.१.१०> न स्त्री पुरुषवद् एव भावम् अधिगच्छति//

२.१.११> सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते//

२.१.१२> सा पुनर् आभिमानिकेन सुखेन संसृष्टा रसअन्तरं जनयति/ तस्मिन् सुखबुद्धिर् अस्याः/

२.१.१३> पुरुष*प्रतीतेश्[अन्यत्र : प्रीतेश्] चअनभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् अशक्यत्वात्/

२.१.१४> कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य स्वेच्छया विरमति, न स्त्रियम् अपेक्षते, न त्व् एवं स्त्रीइत्य् औद्दालकिः//

२.१.१५> तत्रएतत् स्यात्/ चिरवेगे नायके स्त्रियो +अनुरज्यन्ते शीघ्रवेगस्य भावम् अनासाद्यअवसाने +अभ्यसूयिन्यो *भवति[अन्यत्र : भवन्ति]/ तत् सर्वं भावप्राप्तेर् अप्राप्तेश् च लक्षणम्//

२.१.१६> तच् च न/ कण्डूतिप्रतीकारो +अपि हि दीर्घकालं प्रिय इति/ एतद् उपपद्यत एव/ तस्मात् संदिग्धत्वाद् अलक्षणम् इति//

२.१.१७क > संयोगे योषितः पुंसा कण्डूतिर् अपनुद्यते/

२.१.१७ख > तच् च अभिमानसंसृष्टं सुखम् इत्य् अभिधीयते//

२.१.१८> सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति/ पुरुषः पुनर् अन्त एव/ एतद् उपपन्नतरम्/ न ह्य् असत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः//

२.१.१९> अत्रअपि ताव् एवअशङ्कापरिहारौ भूयः//

२.१.२०> तत्रएतत् स्यात् --- सातत्येन रसप्राप्ताव् आरम्भकाले मध्यस्थचित्तता नअतिसहिष्णुता च/ ततः क्रमेणअधिको रागयोगः शरीरे निरपेक्षत्वम्/ अन्ते च विरामअभीप्साइत्य् एतद् उपपन्नम् इति//

२.१.२१> तच् च न/ सामान्ये +अपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्दवेगता ततश् च क्रमेण पूरणम् वेगस्याइत्य् उपपद्यते/ धातुक्षयाच् च विरामअभीप्साइति/ तस्माद् अनाक्षेपः//

२.१.२२क > सुरताअन्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्/

२.१.२२ख > धातुक्षयनिमित्ता च विरामैच्छाउपजायते//

२.१.२३> तस्मात् पुरुषवद् एव योषितो +अपि रसव्यक्तिर् द्रष्टव्या//

२.१.२४> कथं हि समानायाम् एवआकृताव् एकअर्थम् अभिप्रपन्नयोः कार्यवैलक्षण्यं स्याद्

२.१.२५> उपायवैलक्षण्याद् अभिमानवैलक्षण्याच् च//

२.१.२६> कथम् उपायवैलक्षण्यं तु सर्गात्/ कर्ता हि पुरुषो +अधिकरणं युवतिः/ अन्यथा हि कर्ता क्रियां प्रतिपद्यते +अन्यथा चआधारः/ तस्माच् चौपायवैलक्षण्यात् सर्गाद् अभिमानवैलक्षण्यम् अपि भवति/ अभियोक्ताअहम् इति पुरुषो +अनुरज्यते/ अभियुक्ताअहम् अनेनैति युवतिर् इति वात्स्यायनः//

२.१.२७> तत्रएतत् स्याद् उपायवैलक्षण्यवद् एव हि कार्यवैलक्षण्यम् अपि कस्मान् न स्याद् इति/ तच् च न/ हेतुमद् उपायवैलक्षण्यम्/ तत्र कर्त्राधारयोर् भिन्नलक्षणत्वाद् अहेतुमत् कार्यवैलक्षण्यम् अन्याय्यं स्यात्/ आकृतेर् अभेदाद् इति/ २.१.२८> तत्रएतत् स्यात्/ संहत्य कारकैर् एको +अर्थो +अभिनिर्वर्त्यते/ पृथक् पृथक् स्वार्थसाधकौ पुनर् इमौ तद् अयुक्तम् इति//

२.१.२९> तच् च न/ युगपद् अनेकअर्थसिद्धिर् अपि दृश्यते/ यथा मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति/ न तत्र कारकभेद इति चेद् इहअपि न वस्तुभेद इति/ उपायवैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात्/ तेनौभयोर् अपि सदृशी सुखप्रतिपत्तिर् इति//

२.१.३०क > जातेर् अभेदाद् दंपत्योः सदृशं सुखम् इष्यते/

२.१.३०ख > तस्मात् तथाउपचर्या स्त्री यथाअग्रे प्राप्नुयाद् रतिम्//

२.१.३१> सदृशत्वस्य सिद्धत्वात्, कालयोगिन्य् अपि भावतो +अपि कालतः प्रमाणवद् एव नव रतानि//

२.१.३२> रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रतिपर्यायाः/ संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः//

२.१.३३> प्रमाणकालभावजानां संप्रयोगाणाम् एकैकस्य नवविधत्वात् तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुम्/ अतिबहुत्वात्//

२.१.३४> तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः//

२.१.३५> प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य, तद् विपरीतम् उत्तरेषु/ योषितः पुनर् एतद् एव विपरीतम्/ आ धातुक्षयात्/

२.१.३६> प्राक् च स्त्रीधातुक्षयात् पुरुषधातुक्षय इति प्रायोवादः//

२.१.३७क > मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् चएव योषितः/

२.१.३७ख > प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् आचार्या व्यवस्थिताः//

२.१.३८क > एतावद् एव युक्तानां व्याख्यातं सांप्रयोगिकम्/

२.१.३८ख > मन्दानाम् अवबोधअर्थं विस्तरो +अतः प्रवक्ष्यते//

२.१.३९क > अभ्यासाद् अभिमानाच् च तथा संप्रत्ययाद् अपि

२.१.३९ख > विषयेभ्यश् च तन्त्रज्ञाः प्रीतिम् आहुश् चतुर्विधाम्//

२.१.४०क > शब्दआदिभ्यो बहिर्भूता या कर्मअभ्यासलक्षणा/

२.१.४०ख > प्रीतिः साभ्यासिकी ज्ञेया मृगयाआदिषु कर्मसु//

२.१.४१क > अनभ्यस्तेष्व् अपि पुरा कर्मस्व् अविषयआत्मिका/

२.१.४१ख > संकल्पाज् जायते प्रीतिर् या सा स्याद् आभिमानिकी//

२.१.४२क > प्रकृतेर् या तृतीयस्याः स्त्रियाश् चएवौपरिष्टके/

२.१.४२ख > तेषु तेषु च विज्ञेया चुम्बनआदिषु कर्मसु//

२.१.४३क > नअन्यो +अयम् इति यत्र स्याद् अन्यस्मिन् प्रीतिकारणे/

२.१.४३ख > तन्त्रज्ञैः कथ्यते साअपि प्रीतिः संप्रत्ययआत्मिका//

२.१.४४क > प्रत्यक्षा लोकतः सिद्धा या प्रीतिर् विषयआत्मिका/

२.१.४४ख > प्रधानफलवत्त्वात् सा तद् अर्थाश् चैतरा अपि//

२.१.४५क > प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्रलक्षणाः/

२.१.४५ख > यो यथा वर्तते भावस् तं तथाएव प्रयोजयेत्//