The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

 

Back to Kamasutra Menu Page

नायकसहायदूतीकर्मविमर्शः

 

१.५.१> कामश् चतुर्षु वर्णेषु सवर्णतः शास्त्रतश् चअनन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति//

१.५.२> तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च/ प्रतिषिद्धो +अवरवर्णास्व् अनिरवसितासु/ वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः/ सुखअर्थत्वात्//

१.५.३> तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च/ इति//

१.५.४> अन्यकारणवशात् परपरिगृहीतापि पाक्षिकी चतुर्थीइति गोणिकापुत्रः//

१.५.५> स यदा मन्यते स्वैरिणीयम्//

१.५.६> अन्यतो +अपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तमवर्णिन्याम् अपि न धर्मपीडां करिष्यति/ पुनर्भूर् इयम्//

१.५.७> अन्यपूर्वाअवरुद्धा नअत्र शङ्काअस्ति//

१.५.८> पतिं वा महान्तम् ईश्वरम् अस्मदमित्रसंसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति/ सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति//

१.५.९> विरसं वा मयि शक्तम् अपकर्तुकामं च प्रकृतिम् आपादयिष्यति//

१.५.१०> तया वा मित्रीकृतेन मित्रकार्यम् अमित्रप्रतीघातम् अन्यद् वा दुष्प्रतिपादकं कार्यं साधयिष्यामि//

१.५.११> संसृष्टो वाअनया हत्वाअस्याः पतिम् अस्मद्भाव्यं तद् ऐश्वर्यम् एवम् अधिगमिष्यामि//

१.५.१२> निरत्ययं वाअस्या गमनम् अर्थअनुबद्धम्/ अहं च निःसारत्वात् क्षीणवृत्त्युपायः/ सो +अहम् अनेनौपायेन तद्धनम् अतिमहद् अकृच्छ्राद् अधिगमिष्यामि/

१.५.१३> मर्मज्ञा वा मयि दृधम् अभिकामा सा माम् अनिच्छन्तं दोषविख्यापानेन दूषयिष्यति//

१.५.१४> असद्भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्//

१.५.१५> आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति//

१.५.१६> स्वयं वा तैः सह संसृज्येत/ मदवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि//

१.५.१७> राजनियोगाच् चअन्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि//

१.५.१८> यामन्यां कामयिष्ये सास्या वशगा/ ताम् अनेन संक्रमेणअधिगमिष्यामि/

१.५.१९> कन्याम् अलभ्यां वात्माधीनाम् अर्थरूपवतीं मयि संक्रामयिष्यति/

१.५.२०> ममअमित्रो वास्याः पत्या सहैकीभावम् उपगतस् तम् अनया रसेन योजयिष्यामिइत्य् एवम् आदिभिः कारणैः परस्त्रियम् अपि प्रकुर्वीत//

१.५.२१> इति साहसिक्यं न केवलं रागाद् एव/ इति परपरिग्रहगमनकारणानि/

१.५.२२> एतैर् एव कारणैर् महामात्रसंबद्धा राजसंबद्धा वा तत्रएकदेशचारिणी का चिद् अन्या वा कार्यसंपादिनी विधवा पञ्चमीइति चारायणः/

१.५.२३> सैव प्रव्रजिता षष्ठीइति सुवर्णनाभः/

१.५.२४> गणिकाया दुहिता परिचारिका वानन्यपूर्वा सप्तमीइति घोटकमुखः/

१.५.२५> उत्क्रान्तबालभावा कुलयुवतिर् उपचारअन्यत्वाद् अष्टमीइति गोनर्दीयः/

१.५.२६> कार्यअन्तरअभावाद् एतासाम् अपि पूर्वास्व् एवौपलक्षणम्, तस्माच् चतस्र एव नायिका इति वात्स्यायनः/

१.५.२७> भिन्नत्वात् तृतीया प्रकृतिः पञ्चमीइत्य् एके//

१.५.२८> एक एव तु सार्वलौकिको नायकः/ प्रच्छन्नस् तु द्वितीयः/ विशेषालाभात्/ उत्तमअधममध्यमतां तु गुणअगुणतो विद्यात्/ तांस् तुउभयोर् अपि गुणअगुणान् वैशिके वक्ष्यामः//

१.५.२९> अगम्यास् त्व् एवएताः ---कुष्ठिन्य् उन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवनाअतिश्वेताअतिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रियराजदाराश् च//

१.५.३०> दृष्टपञ्चपुरुषा नअगम्या का चिद् अस्तिइति बाभ्रवीयाः//

१.५.३१> संबन्धिसखिश्रोत्रियराजदारवर्जम् इति गोणिकापुत्रः//

१.५.३२> सह पांसुक्रीडितम् उपकारसंबद्धं समानशीलव्यसनं सहअध्यायिनं यश् चअस्य मर्माणि रहस्यानि च विद्यात्, यस्य चअयं विद्याद् वा धात्रपत्यं सहसंवृद्धं मित्रम्//

१.५.३३> पितृपैतामहम् अविसंवादकम् अदृष्टवैकृतं वश्यं ध्रुवम् अलोभशीलम् अपरिहार्यम् अमन्त्रविस्राविइति मित्रसंपत्//

१.५.३४> रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकस् औवर्णिकपीठमर्दविटविदूषकादयो मित्राणि/ तद्योषिन्मित्राश् च नागरकाः स्युर् इति वात्स्यायनः//

१.५.३५> यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सुविस्रब्धं तत्र दूतकर्म//

१.५.३६> पटुता धार्ष्ट्यम् इङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सौपाया चैति दूतगुणाः// भवति चअत्र श्लोकः ---

१.५.३७कख> आत्मवान् मित्रवान् युक्तो भावज्ञो देशकालवित्/

१.५.३७गघ> अलभ्याम् अप्य् अयत्नेन स्त्रियं संसाधयेन् नरः//