The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

Back to Kamasutra Menu Page

विद्यासमुद्देशः

१.३.१> धर्मअर्थअङ्गविद्याकालान् अनुपरोधयन् कामसूत्रं तदङ्गविद्याश् च पुरुषो +अधीयीत//

१.३.२> प्राग्यौवनात् स्त्री/ प्रत्ता च पत्युर् अभिप्रायात्/

१.३.३> योषितां शास्त्रग्रहणस्यअभावाद् अनर्थकम् इह शास्त्रे स्त्रीशासनम् इत्य् आचार्याः//

१.३.४> प्रयोगग्रहणं त्व् आसाम्/ प्रयोगस्य च शास्त्रपूर्वकत्वाद् इति वात्स्यायनः//

१.३.५> तन् न केवलम् इहएव/ सर्वत्र हि लोके कति चिद् एव शास्त्रज्ञाः/ सर्वजनविषयश् च प्रयोगः//

१.३.६> प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः//

१.३.७> अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते//

१.३.८> अस्ति ज्यौतिषम् इति पुण्यअहेषु कर्म कुर्वते//

१.३.९> तथाअश्वआरोहा गजआरोहाश् चअश्वान् गजांश् चअनधिगतशास्त्रा अपि विनयन्ते//

१.३.१०> तथाअस्ति राजाइति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्//

१.३.११> सन्त्य् अपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश् च//

१.३.१२> तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात्//

१.३.१३> अभ्यासप्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत्//

१.३.१४> आचार्यास् तु कन्यानां प्रवृत्तपुरुषसंप्रयोगा सहसंप्रवृद्धा धात्रेयिका/ तथाभूता वा निरत्ययसंभाषणा सखी/ सवयाश् च मातृष्वसा/ विस्रब्धा तत्स्थानीया वृद्धदासी/ पूर्वसंसृष्टा वा भिक्षुकी/ स्वसा च विश्वासप्रयोगात्//

१.३.१५> गीतं, वाद्यं, नृत्यं, आलेख्यं, विशेषकच्छेद्यं, तण्डुलकुसुमवलिविकाराः, पुष्पआस्तरणं, दशनवसनअङ्गरागः, मणिभूमिकाकर्म, शयनरचनम्, उदकवाद्यम्, उदकआघातः, चित्राश् च योगाः, माल्यग्रथनविकल्पाः, शेखरकापीडयोजनं, नेपथ्यप्रयोगाः, कर्णपत्त्रभङ्गाः, गन्धयुक्तिः, भूषणयोजनम्, ऐन्द्रजालाः, कौचुमाराश् च योगाः, हस्तलाघवं, विचित्रशाकयूषभक्ष्यविकारक्रिया, पानकरसरागआसवयोजनं, सूचीवानकर्माणि, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तकवाचनं, नाटकआख्यायिकादर्शनं, काव्यसमस्यापूरणं, पट्टिका*वेत्रवान[अन्यत्र : वान.वेत्र]विकल्पाः, तक्षकर्माणि, तक्षणं, वास्तुविद्या, रूप्य*रत्न[छ् ओमित्स्]परीक्षा, धातुवादः, मणिरागआकरज्ञानं, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनम्, उत्सादने संवाहने केशमर्दने च कौशल्यं[अन्यत्र : कौशलं], अक्षरमुष्टिकाकथनं, म्लेच्छितविकल्पाः, देशभाषाविज्ञानं, पुष्पशकटिका, निमित्तज्ञानं, यन्त्रमातृका, धारणमातृका, संपाथ्यं, मानसी, काव्यक्रिया, अभिधान*कोषः[अन्यत्र : काषः], छन्दोज्ञानं, क्रियाकल्पः, छलितकयोगाः, वस्त्रगोपनानि, *द्यूतिविशेषाः[अन्यत्र : द्यूतविशेषः], आकर्षक्रीडा, बालक्रीडनकानि, वैनयिकीनां वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुःषष्टिर् अङ्गविद्याः कामसूत्रस्यअवयविन्यः//

१.३.१६> पाञ्चालिकी च चतुःषष्टिर् अपरा/ तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः/ कामस्य तदात्मकत्वात्//

१.३.१७क > आभिर् अभ्युच्छ्रिता वेश्या शीलरूपगुणअन्विता/

१.३.१७ख > लभते गणिकाशब्दं स्थानं च जनसंसदि//

१.३.१८क > पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता/

१.३.१८ख > प्रार्थनीयाअभिगम्या च लक्ष्यभूता च जायते//

१.३.१९क > योगज्ञा राजपुत्री च महामात्रसुता तथा/

१.३.१९ख > सहस्र*अन्तःपुनर्[अन्यत्र : न्तःपुरम्] अपि स्ववशे कुरुते पतिम्//

१.३.२०क > तथा पतिवियोगे च व्यसनं दारुणं गता/

१.३.२०ख > देशअन्तरे +अपि विद्याभिः सा सुखेनएव जीवति//

१.३.२१क > नरः कलासु कुशलो वाचालश् चाटुकारकः/

१.३.२१ख > असंस्तुतो +अपि नारीणां चित्तम् आश्व् एव विन्दति//

१.३.२२क > कलानां ग्रहनाद् एव सौभाग्यम् उपजायते/

१.३.२२ख > देशकालौ त्व् अपेक्ष्यआसां प्रयोगः संभवेन् न वा//