The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

Back to Kamasutra Menu Page

त्रिवर्गप्रतिपत्तिः

१.२.१> शतआयुर् वै पुरुषो विभज्य कालम् अन्योन्यअनुबद्धं परस्परस्यअनुपघातकं त्रिवर्गं सेवेत//

१.२.२> बाल्ये विद्याग्रहणआदीन् अर्थान्//

१.२.३> कामं च यौवने//

१.२.४> स्थाविरे धर्मं मोक्षं च//

१.२.५> अनित्यत्वाद् आयुषो यथाउपपादं वा सेवेत//

१.२.६> ब्रह्मचर्यम् एव त्व् आ विद्याग्रहणात्//

१.२.७> अलौकिकत्वाद् अदृष्टअर्थत्वाद् अप्रवृत्तानां यज्ञाआदीनां शास्त्रात् प्रवर्तनम्, *लौकिकत्वाद्[अन्यत्र : लौकित्वाद्] दृष्टअर्थत्वाच् च प्रवृत्तेभ्यश् च मांसभक्षणआदिभ्यः शास्त्राद् एव निवारणं धर्मः//

१.२.८> तं श्रुतेर् धर्मज्ञसमवायाच् च प्रतिपद्येत//

१.२.९> विद्याभूमिहिरण्यपशुधान्यभाण्डौपस्करमित्रआदीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः//

१.२.१०> तम् अध्यक्षप्रचाराद् वार्तासमयविद्भ्यो वणिग्भ्यश् चैति//

१.२.११> स्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम् आत्मसंयुक्तेन मनसाअधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः//

१.२.१२> स्पर्शविशेषविषयात् त्व् अस्यअभिमानिकसुखअनुविद्धा फलवत्य् अर्थप्रतीतिः प्राधान्यात् कामः//

१.२.१३> तं कामसूत्रान् नागरिकजनसमवायाच् च प्रतिपद्येत//

१.२.१४> एषां समवाये पूर्वः पूर्वो गरीयान्//

१.२.१५> अर्थश् च राज्ञः/ तन्मूलत्वाल् लोकयात्रायाः/ वेश्यायाश् चैति त्रिवर्गप्रतिपत्तिः//

१.२.१६> धर्मस्यअलौकिकत्वात् तदभिधायकं शास्त्रं युक्तम्/ उपायपूर्वकत्वाद् अर्थसिद्धेः/ उपायप्रतिपत्तिः शास्त्रात्//

१.२.१७> तिर्यग्योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तिइत्य् आचार्याः//

१.२.१८> संप्रयोगपराधीनत्वात् स्त्रीपुंसयोर् उपायम् अपेक्षते//

१.२.१९> सा चौपायप्रतिपत्तिः कामसूत्राद् इति वात्स्यायनः//

१.२.२०> त्रियग्योनिषु पुनर् अनावृतत्वात् स्त्रीजातेश् च, ऋतौ यावद् अर्थं प्रवृत्तेर् अबुद्धिपूर्वकत्वाच् च प्रवृत्तीनाम् अनुपायः प्रत्ययः//

१.२.२१> न धर्मांश् चरेत्/ एष्यत्फलत्वात्, सांशयिकत्वाच् च//

१.२.२२> को ह्य् अबालिशो हस्तगतं परगतं कुर्यात्//

१.२.२३> वरम् अद्य कपोतः श्वो मयूरात्//

१.२.२४> वरं सांशयिकान् निष्काद् असांशयिकः कार्षापणः/ इति *लौकायतिकाः[अन्यत्र : लौकायातिकाः]//

१.२.२५> शास्त्रस्यअनभिशङ्क्यत्वाद् अभिचारअनुव्याहारयोश् च क्वचित् फलदर्शनान् नक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकअर्थं बुद्धिपूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्णआश्रमआचारस्थितिलक्षणत्वाच् च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यअर्थे त्यागदर्शनाच् चरेद् धर्मान् इति वात्स्यायनः//

१.२.२६> नअर्थांश् चरेत्/ प्रयत्नतो +अपि ह्य् एते +अनुष्ठीयमाना नएव कदाचित् स्युः// अननुष्ठीयमाना अपि यदृच्छया भवेयुः//

१.२.२७> तत्सर्वं कालकारितम् इति//

१.२.२८> काल एव हि पुरुषान् अर्थअनर्थयोर् जयपराजययोः सुखदुःखयोश् च स्थापयति//

१.२.२९> कालेन बलिर् इन्द्रः कृतः/ कालेन *व्यवरोपितः[अन्यत्र : व्यपरोपितः]/ काल एव पुनर् अप्य् एनं कर्ताइति कालकारणिकाः//

१.२.३०> पुरुषकारपूर्वकत्वात् सर्वप्रवृत्तीनाम् उपायः प्रत्ययः//

१.२.३१> अवश्यं भाविनो +अप्य् अर्थस्यौपायपूर्वकत्वाद् एव/ न निष्कर्मणो भद्रम् अस्तिइति वात्स्यायनः//

१.२.३२> न कामांश् चरेत्/ धर्मअर्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्/ अनर्थजनसंसर्गम् असद्व्यवसायम् अशौचम् अनायतिं चएते पुरुषस्य जनयन्ति//

१.२.३३> तथा प्रमादं लाघवम् अप्रत्ययम् अग्राह्यतां च/

१.२.३४> बहवश् च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते//

१.२.३५> यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्याम् अभिमन्यमानः सबन्धुराष्ट्रो विननाश//

१.२.३६> देवराजश् चअहल्याम् अतिबलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चअन्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्य् अर्थचिन्तकाः//

१.२.३७> शरीरस्थितिहेतुत्वाद् आहारसधर्माणो हि कामाः/ फलभूताश् च धर्मअर्थयोः//

१.२.३८> बोद्धव्यं तु दोषेष्व् इव/ न हि भिक्षुकाः सन्तिइति स्थाल्यो नअधिश्रीयन्ते/ न हि मृगाः सन्तिइति यवा नौपयन्त इति वात्स्यायनः// भवन्ति चअत्र श्लोकाः॒ ---

१.२.३९कख> एवम् अर्थं च कामं च धर्मं चौपाचरन् नरः/

१.२.३९गघ> इहअमुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते//

१.२.४०कख> किं स्यात् परत्रैत्य् आशङ्का कार्ये यस्मिन् न जायते/

१.२.४०गघ> न चअर्थघ्नं सुखं चैति शिष्टास् तत्र व्यवस्थिताः//

१.२.४१कख> त्रिवर्गसाधकं यत् स्याद् द्वयोर् एकस्य वा पुनः/

१.२.४१गघ> कार्यं तद् अपि कुर्वीत न त्व् एकअर्थं द्विबाधकम्//