The Kama Sutra of Vatsyayana

वात्स्यायन का कामसूत्र

Back to Kamasutra Menu Page

 

शास्त्रसंग्रहः

 

१.१.१> धर्मअर्थकामेभ्यो नमः//

१.१.२> शास्त्रे प्रकृतत्वात्//

१.१.३> तत्समयअवबोधकेभ्यश् चआचार्येभ्यः//

१.१.४> तत्संबन्धात्//

१.१.५> प्रजापतिर् हि प्रजाः सृष्ट्वा ताषां स्थितिनिबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणअग्रे प्रोवाच//

१.१.६> तस्यएकदेशिकं मनुः स्वायंभुवो धर्मअधिकारिकं पृथक् चकार//

१.१.७> बृहस्पतिर् अर्थअधिकारिकम्//

१.१.८> महादेवअनुचरश् च नन्दी सहस्रेणअध्यायानां पृथक् कामसूत्रं प्रोवाच//

१.१.९> तद् एव तु पञ्चभिर् अध्यायशतैर् औद्दालकिः श्वेतकेतुः संचिक्षेप//

१.१.१०> तद् एव तु पुनर् अध्यर्धेनअध्यायशतेन साधारणसांप्रयोगिककन्यासंप्रयुक्तकभार्याअधिकारिकपारदारिकवैशि कऔपनिषदिकः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप//

१.१.११> तस्य षष्ठं वैशिकम् अधिकरणं पाटलिपुत्रिकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार//

१.१.१२> तत्प्रसङ्गाच् चारायणः साधारणम् अधिकरणं पृथक् प्रोवाच/ सुवर्णनाभः सांप्रयोगिकम्/ घोटकमुखः कन्यासंप्रयुक्तकम्/ गोनर्दीयो भार्याअधिकारिकम्/ गोणिकापुत्रः पारदारिकम्/ कुचुमार औपनिषदिकम् इति/

१.१.१३> एवं बहुभिर् आचार्यैस् तच्छास्त्रं खण्डशः प्रणीतम् उत्सन्नकल्पम् अभूत्/

१.१.१४> तत्र दत्तकआदिभिः प्रणीतानां शास्त्रअवयवानाम् एकदेशत्वात्, महद् इति च बाभ्रवीयस्य दुरध्येयत्वात्, संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्//

१.१.१५> तस्यअयं प्रकरणअधिकरणसमुद्देशः

१.१.१६> शास्त्रसंग्रहः/ त्रिवर्गप्रतिपत्तिः/ विद्यासमुद्देशः/ नागरिकवृत्तम्/ नायकसहायदूतीकर्मविमर्शः/ इति साधारणं प्रथमम् अधिकरणम्/ अध्यायाः पञ्च/ प्रकरणानि पञ्च/

१.१.१७> प्रमाणकालभावेभ्यो रतअवस्थापनम्/ प्रीतिविशेषाः/ आलिङ्गनविचाराः/ चुम्बनविकल्पाः/ नखरदनजातयः/ दशनच्छेद्यविधयः/ देश्या उपचाराः/ संवेशनप्रकाराः/ चित्ररतानि/ प्रहणनयोगाः/ तद्युक्ताश् च सीत्कृतौपक्रमाः/ पुरुषायितम्/ पुरुषोपसृप्तानि/ औपरिष्टकम्/ रतआरम्भअवसानिकम्/ रतविशेषाः/ प्रणयकलहः/ इति सांप्रयोगिकं द्वितीयम् अधिकरणम्/ अध्याया दश/ प्रकरणानि सप्तदश/

१.१.१८> वरणविधानम्/ संबन्धनिर्णयः/ कन्याविस्रम्भणम्/ *बालाया[अन्यत्र : बालायाः] उपक्रमाः/ इङ्गितआकारसूचनम्/ एकपुरुषअभियोगः/ प्रयोज्यस्यौपावर्तनम्/ अभियोगतश् च कन्यायाः प्रतिपत्तिः/ विवाहयोगः/ इति कन्यासंप्रयुक्तकं तृतीयम् अधिकरणम्/ अध्यायाः पञ्च/ प्रकरणानि नव/

१.१.१९> एकचारिणीवृत्तम्/ प्रवासचर्या/ सपत्नीषु ज्येष्ठावृत्तम्/ कनिष्ठावृत्तम्/ पुनर्भूवृत्तम्/ दुर्भगावृत्तम्/ *आन्तःपुरिकम्[अन्यत्र : न्तःपुरिकम्]/ पुरुषस्य बह्वीषु प्रतिपत्तिः/ इति भार्याअधिकारिकं चतुर्थम् अधिकरणम्/ अध्यायौ द्वौ/ प्रकरणान्य् अष्टौ/

१.१.२०> स्त्रीपुरुषशीलअवस्थापनम्/ व्यावर्तनकारणानि/ स्त्रीषु सिद्धाः पुरुषाः/ अयत्नसाध्या योषितः/ परिचयकारणानि/ अभियोगाः/ भावपरीक्षा/ दूतीकर्माणि/ ईश्वरकामितम्/ आन्तःपुरिकं दाररक्षितकम्/ इति पारदारिकं पञ्चमम् अधिकरणम्/ अध्यायाः षट्/ प्रकरणानि दश/

१.१.२१> गम्यचिन्ता/ गमनकारणानि/ उपावर्तनविधिः/ कान्तअनुवर्तनम्/ अर्थआगमौपायाः/ विरक्तलिङ्गानि/ विरक्तप्रतिपत्तिः/ निष्कासनप्रकाराः/ विशीर्णप्रतिसंधानम्/ लाभविशेषः/ अर्थअनर्थअनुबन्धसंशयविचारः/ वेश्याविशेषाश् च/ इति वैशिकं षष्ठम् अधिकरणम्/ अध्यायाः षट्/ प्रकरणानि द्वादश/

१.१.२२> सुभगंकरणम्/ वशीकरणम्/ वृष्याश् च योगाः/ नष्टरागप्रत्यानयनम्/ वृद्धिविधयः/ चित्राश् च योगाः/ इत्य् औपनिषदिकं सप्तमम् अधिकरणम्/ अध्यायौ द्वौ/ प्रकरणानि षट्/

१.१.२३> एवं षट्त्रिंशद् अध्यायाः/ चतुःषष्टिः प्रकरणानि/ अधिकरणानि सप्त/ सपादं श्लोकसहस्रम्/ इति शास्त्रस्य संग्रहः//

१.१.२४क > संक्षेपम् इमम् उक्त्वाअस्य विस्तरो +अतः प्रवक्ष्यते/

१.१.२४ख > इष्टं हि विदुषां लोके समासव्यासभाषणम्//